Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 443
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir एकाढेत्यजभाव आषः । सप्तम्यर्थे तृतीया । चतमृणामिति "छन्दस्युभयथा" इति पक्षे दीर्घः ॥ १२ ॥ उत्तरे फल्गुनीभ्यामुपलाक्ष तयोदिवसयोरुत्तरस्मिन् दिवसे, उत्तरफल्गुन्यामित्यर्थः । यद्वा फल्गुनीभ्यामिति सप्तम्यर्थे चतुर्थी । फल्गुन्यामुत्तरे फल्गुन्याख्ये उतरनक्षत्र इत्यर्थः । प्रशस्ततायां हेतुः भग इति । भगः प्रजापतिः । प्रजोत्पत्तिस्थानयोनिलिङ्गाधिष्ठाता देवता। ननु-“एकस्मिस्तु गृहे कुर्यादेकामेव शुभक्रियाम् । उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः । वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः॥ १३॥ एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः । उभौ मुनिवरौराजा जनको वाक्यमब्रवीत् ॥१४॥ परो धर्मः कृतो मां शिष्योऽस्मि भवतोः सदा ॥ १५॥ इमान्यासनमुख्यानि आसातांमुनिपुङ्गवौ। यथा दशरथस्येयं तथायोध्या पुरी मम । प्रभुत्वे नास्ति सन्देहो यथार्ह कर्तुमर्हथ ॥ १६॥ अनेकां यस्तु कुरुते स नाशमधिगच्छति ॥” इति ज्योति शास्त्रे एकगृहे अनेकोत्सवनिषेधो दृश्यत इतिचेत्, मतान्तरे एकगृहे भ्रातृणामेकदोत्सवस्य। विड़ितत्वात् । उक्तं हि देवज्ञविलासे-“भित्रोदरोदयवतामुद्राहे कल्पयेत् पृथग्वेदिम् । एकगृहे जगुरार्या मण्डपमेकं पराशरेणोक्तम् ॥” इति । नन्वेव मपि लक्ष्मणशत्रुघ्नयोः कथमेकदा विवाहः ?"एकमातृप्रसूतानामकस्मिन्नेव वत्सरे । विवाहं मौनिबन्धं च चूडाकर्म न कारयेत्॥” इति निषेधादिति चेत् सत्यम् । एकस्मिन् दिने तु कर्तव्य एव । उक्तं हि देवज्ञविलासे-"भ्रातृदये स्वमृयुगे भ्रातृस्वसृयुगे तथा । समानाश्व क्रियाः कुर्युर्मातृभेदे तथैव च । एकस्मिन् दिवसे त्वेकलने भिन्नांशके तयोः । एकगर्भोदयवतोर्विवाहः शुभकृद्भवेत् ॥” इति एकोदरयोरप्येकगृहे विवाहकरणवचनं द्रष्टव्यम् | ॥ १३ ॥ प्रत्युत्थाय आदरातिशयेनेति भावः ॥ १४॥ परो धर्मः कन्याप्रदानरूपः ॥१५॥ इमानीति सार्द्धश्लोक एकान्वयः । महातुर्मम दशरथस्य च यान्यासनमुख्यानि सिंहासनानि तानि युवामासाताम् । पुरुषव्यत्यय आर्षः । विनयाय प्रथमपुरुषो वा । राज्यत्रयमपि युष्मदीयमित्यर्थः । ननु दशरथ उत्तरे इति । फल्गुनीभ्यां फल्गुन्योः वैवाहिकं प्रशंसन्ति प्रशस्तमिति वदन्ति। यत्र फल्गुनीनक्षत्रे । भगः प्रजापतिर्देवता॥१३॥ एवमुक्त्वेति । एवमुक्त्वा प्रत्युत्थाय आसनादुत्थाय वाक्यमब्रवीत् ॥१४॥१५॥ इमानीत्यादि । आसनशब्देन दशरथजनककुशध्वजाना राज्यानि लक्ष्यन्ते । भवन्तो आसनानि आसाता परिपाल येताम् । राज्यत्रयमपि भवदधीनमित्यर्थः । दशरथराज्यं त्वया कथं नियुज्यम् ? इत्यत्राह-यथेति । इयं मिथिला यथा दशरथस्य तथा मम अयोध्या । यथाई कर्तु क For Private And Personal Use Only

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468