________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्ये असितवृत्तान्तकथनं सगरवैभवातिशयप्रकटनाय ॥२४॥ प्रतिराजानः प्रतिपक्षाः। शत्रवः शातयितारः। प्रतिराजानेव तान् विशेषयति हेया। इत्यादि॥२५॥ प्रतियुद्धयन् अभिमुखतया युद्धं कुर्वन् । प्रवासितः राज्याभ्रंशितः॥२६॥ भृगुप्रस्रवणे भृगुमहामुनिसान्निध्यवन्निझरोपान्तप्रदेशे। इदमेव ।
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत।सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥२३॥ यशस्वी ध्रुवसन्धस्तु भरतो नाम नामतः । भरतात्तु महातेजा असितो नाम जातवान् ॥२४॥ यस्यैते प्रतिराजान उदपद्यन्त शत्रवः । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥ २५ ॥ तांस्तु स प्रतियुद्ध्यन वै युद्धे राजा प्रवासितः॥ २६॥ हिम वन्तमुपागम्य भृगुप्रस्रवणेऽवसत् । असितोऽल्पबलो राजा मन्त्रिभिः सहितस्तदा ॥२७॥ द्वे चास्य भार्ये गर्मिण्यो बभूवतुरिति श्रुतम् । एका गर्भविनाशाय सपल्यै सगरं ददौ ॥२८॥ ततः शैलवरं रम्यं बभूवाभिरतो मुनिः । भार्गवश्यवनो नाम हिमवन्तमुपाश्रितः ॥ २९ ॥ तत्रैका तु महाभागा भार्गवं देववर्चसम् । ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमात्मनः॥३०॥ तमृर्षि साभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥३१॥ स तामभ्य वदद्विप्रः पुत्रेप्सुं पुत्रजन्मनि ॥ ३२॥ तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः । महावीर्यों महातेजा अचिरात्
सञ्जनिष्यति । गरेण सहितः श्रीमान मा शुचः कमलेक्षणे ॥ ३३ ॥ पूर्व भृगुतुन्द इत्युक्तम् ॥२७॥ सगरं गरं विषं तत्सहितं भक्ष्यमित्यर्थः ॥२८॥ तत इति । अभिरतः प्रीतः सन् हिमवन्तमुपाश्रितोऽभूत् स्वदेशवासाभि मानेन प्रीतः सन् तद्वरप्रदानाय सन्निहितोऽभूदित्यर्थः ॥२९॥ ३० ॥ कालिन्दीति सगरमुपयुक्तवत्या नाम । उपागम्य शरणं गत्वा । अभ्यवादयत् शुथूपते स्म ॥३१॥ सः पुत्रेप्सुम् अप्रतिबन्धपुत्रेप्सुम् । पुत्रजन्मनि पुत्रोत्पत्तिविषये ॥ ३२॥ गरेण सपनीप्रयुक्तेन । मा शुचः गरप्रयोगनिमित्तं शोकं स्मृतः ॥ १८-२४ ॥ यस्पैत इति । यस्य प्रतिराजानः प्रतिपक्षभूता राजानः। हैहयादयः सोमवंश्याः। शत्रवः हिंसकाः । उदपद्यन्त अजायन्त ॥२५॥ तानिति। प्रतियुद्धचन् प्रतिपक्षतया युद्धचन् । प्रवासितः निष्कासितः राज्याशितः ॥ २६ ॥ २७ ॥ द्वे इति । सगरं गरसहितं भक्ष्यं ददौ ॥ २८॥ तत इति । अभिरतः सन
हिमवन्तमुपाश्रितोऽभूदिति सम्बन्धः ॥२९॥३०॥ तमूपिपिति । कालिन्दी कालिन्द्याख्या ऋषिमुपागम्य शरणं गत्वा अभ्यवायत शुश्रूषते स्म ॥३१॥ स तामिति । IMपुत्रजन्मनि पुत्रजन्मविषये ॥३२॥ तवेति । गरेण सपत्नीमयुक्तेन गरेण तस्य विपत्तिर्न भवतीति गम्यते, जातः स वंशकरो भविष्यति अतः मा शुचः ॥ ३३॥
For Private And Personal Use Only