________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥१७७॥
टी.बा.का .७.
वक्ष्यति, कुलमितिशेषः। विश्वामित्रस्य कोपपरिहाराय विश्वामित्राभ्यनुज्ञात इत्युक्तम् । “दशपुरुषविख्यातात्" इति शास्त्रेण यौनसम्बन्धापेक्षितां वंश शुद्धिं वक्ष्यतीत्यर्थः॥१५॥१६॥ अव्यक्तं प्रत्यक्षायगोचरं वस्तु प्रभवः कारणं यस्य सोऽव्यक्तप्रभवः। अव्यक्तं किं नाम, वक्ष्यत्ययोध्याकाण्डे-"आकाश प्रभवो ब्रह्मा" इति । अथ कोऽयमाकाशोऽपि, तमपि वक्ष्यत्युत्तरकाण्डे–“संक्षिप्य हि पुरा लोकान् मायया स्वयमेव हि । महार्णवे शयानोऽप्सु मां त्वं विश्वामित्राभ्यनुज्ञातःसह सर्वैर्महर्षिभिः। एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम् ॥ १५॥ तूष्णीम्भूते दशरथे वसिष्ठो भगवानृषिः । उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम् ॥ १६॥ अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः। तस्मान्मरीचिः संजज्ञेमरीचेः काश्यपः सुतः॥ १७॥ विवस्वान् काश्यपाज्जज्ञे मनुर्वेवस्वतः स्मृतः । मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः॥१८॥ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् । इक्ष्वाकोस्तु सुतः श्रीमान कुक्षिरित्येव विश्रुतः॥ १९॥ कुक्षेरथात्मजः श्रीमान विकुक्षिरुदपद्यत । विकुक्षेस्तु महातेजा बाणः पुत्रःप्रतापवान् ॥२०॥ बाणस्य तु महातेजा अनरण्यः प्रतापवान् । अनरण्यात्पथुर्जज्ञे त्रिशङ्कुस्तु एथोः सुतः
॥२१॥ त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः । यौवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः ॥ २२॥ पूर्वमजीजनः। पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सबै निवेशितम् ॥” इत्यादिना । शाश्वतः बहुकालस्थायी नित्यः द्विपरार्द्धकालं विनाशरहितः। अव्ययःप्रवाहरूपेण प्रतिकल्पमवस्थायी । अस्तीतिशेषः ॥ १७॥ वैवस्वतः विवस्वत्पुत्रः प्रजापतिः राजा, आसीदितिशेषः १८-२१॥धुन्धुमारः युवनाश्वापरनामधेयः ॥ २२ ॥२३॥
रामानुजीयम्-धुन्धुमार इत्यादि । धुन्धुमार एव युवनाश्वः, तस्यैवं नामान्तरम् ॥ २२ ॥ भगवान् वसिष्टः सर्वेषु कृत्येषु । वक्तेति । इक्ष्वाकुकुलस्य दैवतं परमगुरुरित च विदितं प्रसिद्धम् ॥ १४ ॥ विश्वामित्रेति। यथाक्रमं कुलमिति शेषः ॥ १५ ॥ १६ ॥ अव्यक्तेति । अव्यक्तप्रभवा-अव्यक्तः प्रत्यक्षप्रमाणाद्यगोचरो विष्णुः प्रभवः कारणं यस्य स तथोक्तः ॥ १७ ॥ विवस्वानिति । विवस्वतः पुत्रः मनुरिति
१ यथा क्रमम् । एवमुक्त्वा नरश्रेष्तो राझा मध्ये महात्मनाम् । २ महायशाः । धुन्धुमारान्महातेजा युवनाश्वो महारथः । इत्यधिकः पाठः ।
१७॥
For Private And Personal Use Only