________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यज्ञगोप्ता साङ्काइये स्थित्वा यज्ञसामग्रीप्रेषणादिनेतिभावः । इमां विवाहकल्याणजाम् । भोक्तेति लुट् ||४ || नरेन्द्रस्य शासनात् शतानन्दवचनद्वारका दित्यर्थः । विष्णुम् उपेन्द्रम् ॥ ५ ॥६॥ अध्यरोहत पुरोहितराजानुज्ञयेत्यर्थः ॥ ७-९ ॥ औपकार्य दशरथशिविरनिवेशम् । उपकार्याशब्दात्स्वार्थे ष्यञ् । तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः । प्रीतिं सोऽपि महातेजा इर्मा भोक्ता मया सह ॥ ४॥ शासनान्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः । समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथां ॥ ५ ॥ आज्ञयाथ नरेन्द्रस्य आजगाम कुश ध्वजः । स ददर्श महात्मानं जनकं धर्मवत्सलम् ॥ ६ ॥ सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम् । राजाह परमं दिव्यमासनं चाध्यरोहत ॥ ७ ॥ उपविष्टावुभौ तौ तु भ्रातरावतितेजसौ । प्रेषयामासतुवीरौ मन्त्रि श्रेष्ठं सुदामनम् ॥ ८ ॥ गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम् । आत्मजैः सह दुर्द्धर्षमानयस्व समन्त्रिणम् ॥ ९ ॥ औपका स गत्वा तु रघूणां कुलवर्द्धनम् । ददर्श शिरसा चैनमभिवाद्येदमब्रवीत् ॥ १० ॥ अयोध्याधिपते वीर वैदेहो मिथिलाधिपः । स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम् ॥ ११ ॥ मन्त्रि श्रेष्ठवचः श्रुत्वा राजा सर्षिगण स्तदा । सबन्धुरगमत्तत्र जनको यत्र वर्तते ॥ १२ ॥ स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः । वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत् ॥ १३॥ विदितं ते महाराज इक्ष्वाकुकुलदैवतम् । वक्ता सर्वेषु कृत्येषु वसिष्टो भगवानृषिः ॥ १४॥ ॥१०- १३ ।। विदितमिति । "मतिबुद्धि-" इत्यादिना वर्तमाने कः । "तस्य च वर्तमाने " इतिषष्टी । त्वया विदितमित्यर्थः । दैवतं परमगुरुरित्यर्थः॥१४॥ पुष्पकाख्यम्, विमानामेव स्थितामिति भावः । साङ्कायां साङ्काश्याख्यां पुरीम् । अध्यवसत् अधिवसति ||२||३|| तमहमिति । यतः स यज्ञगोता मदीयागसंरक्षक त्वेन मतः, अतस्तं द्रष्टुमिच्छामीत्यर्थः । इमां प्रीतिं जानकीपरिणयजनिताम् । भोक्ता भोक्ष्यते ॥ ४॥ शासनादिति । शासनात्प्रययुः । दूता इति शेषः । विष्णुमुपेन्द्रम् |॥५॥६॥ सोऽभिवाद्येति । पूर्व शतानन्दम् पश्चाद्राजानमभिवाद्य आसनं चाध्यारोहत ॥७-१९॥ औपकार्यमिति । औपकार्यानुपकारिकाम् ।। १०-१३ ।। विदितमिति
समागत्य दर काजम् । ग्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम्
१ सह । एवमुक्ते तु वचने शतानन्दस्य सन्निधौ । आगताः केचिद्व्यमा जनकरान्समादिशत् ।। २ यथा । सांका तसं नृपतिः खादूतश्रेष्ठेमहाबलेः । इत्यधिकः पाठः ।
Acharya Shri Kalassagarsuri Gyanmandir
For Private And Personal Use Only