________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥॥१७६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"निशाम्य दृड्डा । " शमो दर्शने ” इति मित्वनिषेधान्न ह्रस्वः ॥ १७ ॥ जनकोऽपीति । यज्ञस्य क्रियाम् अवशिष्टक्रियाम् । सुताभ्यां पुत्र्योः 1 क्रियामडुरार्पणादिकम् ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९॥ अथ जनकेन सम्बन्धाईत्वायेक्ष्वाकुसन्तान कीर्तनं सप्ततितमे - ततः प्रभात इत्यादि । कृतकर्मा समाप्तयज्ञादिक्रियः ॥ १ ॥ भ्रातेत्यादि । अत्रत्यविशेष
राजा च राघव पुत्रौ निशाम्य परिहर्षितः । उवास परमप्रीतो जनकेनाभिपूजितः ॥ १७ ॥ जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् । यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥ १८ ॥ इत्यार्षे • बालकाण्डे एकोनसप्ततितमः सर्गः॥६९॥ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः । उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥ भ्राता मम महातेजा यवीयानतिधार्मिकः । कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् । साङ्गाश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ ३ ॥
णानां शतानन्दपरिज्ञातानामप्युपदेशः परम्परया दशरथादिश्रोत्रं प्रापयितुम् । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थे परिखारूपेणावस्थितायाम् इक्षुमत्यां वारिणि आकीर्णाः निखाताः फलकाश्शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तप्रदेशा यस्यास्ताम् । वार्यामलक पर्यन्तामिति पाठे - वार्यामलकाः आमलकविशेषास्तत्पर्यन्ताम् । पुण्यसङ्काशां पुण्यतुल्यां, पुण्यवत्स्ववासिनां स्वतएवाभीष्टप्रदामित्यर्थः । पुष्पकं विमानमिव स्थितां साङ्काइयां पुरीम् । इक्षुमतीं नदीं पिबन् तज्जलं पिबन्नित्यर्थः । अध्यवसत् अधिवसति । " उपान्वध्याङ्ग्वसः " इत्याधारस्य कर्मत्वम् ॥ २ ॥ ३ ॥
स्यान्ते ऋषिसम्मतं विवाहं निर्वर्तयितुमर्हसि ॥ १२-१६ ॥ राजा चेति । निशाम्य दृष्ट्वा ॥ १७ ॥ जनकोपीति । यज्ञस्यावशिष्टाः क्रियाः । सुताभ्यां दुहित्रोः । अङ्कुरार्पणादि क्रियाः कृत्वा ॥ १८ ॥ इति श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकोनसप्ततितमस्सर्गः ॥ ६९ ॥ तत इति । कृतकर्मा ऋषिभिः कृतप्रातः सवनाद्यनुष्ठानः ॥ १ ॥ भ्रातेत्यादि । इक्षुमतीं नदीं पिवन् तज्जलं पिबन्नित्यर्थः । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थं परिधारूपेणावस्थितायास्तस्या नद्याः वारिणि आकीर्णाः निखाताः फलकाः शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तदेशाः यस्यां ताम् । वार्यामलकपर्यन्तामिति क्वचित्पाठः । वार्या मलका: आमलकविशेषाः पर्यन्तेषु यस्यास्तां तथोक्ताम् । पुण्यसङ्काशाम् पुण्यशब्देन तत्फलभूतः स्वर्गे लक्ष्यते, तत्सङ्काशां स्वर्गोपमामित्यर्थः । पुष्पकं
For Private And Personal Use Only
टी.बा.कां.
स०७०
॥ १७६ ॥