SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir उपधाम् ॥७॥राजानमासाद्य मुदितः विवाहः शीघ्रभावीति हर्ष ययौ ॥८॥ वीर्यनिर्जितां पुत्रयोर्वीर्येण धनुर्भङ्गादिना सम्भूतामित्यर्थः॥९॥ वसि ष्ठस्य शतक्रतुसाम्यं पूर्णधर्मत्वेन ॥१०॥ विघ्राः कन्याप्रदानप्रतिबन्धकाः। पूजितत्वे हेतुमाह-राघवैरिति । यत इत्युपस्कार्यम् ॥ ११ ॥ इक्ष्वाकु प्रथमवंशत्वेन नरेन्द्राणामिन्द्रत्वम् । यज्ञस्यान्त इति, त्रिचतुरदिनानन्तरभाविनीति शेषः । ऋषिसम्मतं ब्राह्मं विवाहमित्यर्थः॥१२॥ महीपतिं जनकम् | ततो राजानमासाद्य वृद्धं दशरथं नृपम् । जनको मुदितो राजा हर्ष च परमं ययौ । उवाच च नरश्रेष्ठो नरश्रेष्ठं मुदान्वितः ॥८॥ स्वागतं ते महाराज दिष्टया प्राप्तोऽसि राघव । पुत्रयोरुभयोःप्रीतिं लप्स्यसे वीर्यनिर्जिताम् ॥९॥ दिष्टया प्राप्तो महातेजा वसिष्ठो भगवानृषिः । सह सर्वेर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः॥ १०॥ दिष्टया मे निर्जिता वित्रा दिष्टया मे पूजितं कुलम् । राघवैः सह सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ॥ ११ ॥ श्वःप्रभाते नरेन्द्रेन्द्र निर्वर्त यितुमर्हसि । यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसम्मतम् ॥ १२॥ तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः । वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम् ॥ १३॥ प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा । यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम् ॥ १४॥ धर्मिष्टं च यशस्यं च वचनं सत्यवादिनः । श्रुत्वा विदेहाधिपतिः परं विस्मय मागतः॥ १५॥ ततः सर्वे मुनिगणाः परस्परसमागमे । हर्षेण महता युक्तास्तां निशामवसन सुखम् ॥ १६॥ ॥ १३॥ प्रतिग्रह इति । कन्यागवादीनां प्रतिग्रहो दातृवश एव, यदा दाता ददाति तदा प्रतिगृह्यते प्रतिग्रहीत्रेति वस्तुस्थितिः। एतत् युष्मदीयं वीर्य शुल्ककन्याप्रदानमपि पूर्वमेव श्रुतम्, अतःपरं कन्याप्रदस्त्वं यथा वक्ष्यसि तथा वयं करिष्यामः ॥१४॥ विस्मयमिति । प्रतिग्रहो दातृवश इत्यादि विनयोक्तरितिभावः ॥ १५॥ परस्परसमागमे सम्भूते सतीति शेषः ॥१६॥ तत इति । राजानमासाद्य मुदितो हर्ष ययौ । विवाहः शीघ्रभावीति हेतोः॥८॥ स्वागतमिति । वीर्यनिर्जिता शौर्यसम्पादिताम् ॥९॥१०॥ दिष्टचेति । विनाः श्रेयाप्रतिरोधकाः । निर्जिताः निर्गताः ॥ ११ ॥ श्व इति । निर्वर्तयितुं विवाहनिश्चयोपयोगिप्रसङ्गमिति शेषः । यज्ञस्यान्त इति । यज्ञस्य चतुर्दिनावशिष्ट १ सुखम् । अथ रामो महातेमा लक्ष्मणेन समं ययौ । विश्वामित्र पुरस्कृत्य पितुः पादायुपस्पृशन् । इत्यधिकः पाठः । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy