SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kabatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भू. ॥१७५॥ यदि वो रोचत इति । यौनसम्बन्धयोग्यमिति शेषः । पर्ययः अतिक्रमः ॥ १७॥ मन्त्रिण इति । यो यात्रेत्यत्रबीदिति तदर्थमुयुध्वमितिभावः ॥१८॥ टी.बा.क. मन्त्रिणः जनकमन्त्रिणः। गुणैः सत्कारातिशयैः । तां रात्रि तस्यां राज्यामित्यर्थः॥ १९॥ इति श्रीगो• श्रीरा०म० बाल• अष्टषष्टितमः सर्गः ॥६८०६९ यदि वो रोचते वृत्तं जनकस्य महात्मनः । पुरीं गच्छामहे शीघ्रं माभूत्कालस्य पर्ययः ॥ १७ ॥ मन्त्रिणो बाढ मित्याहुः सह सर्वेमहर्षिभिः। सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति समन्त्रिणः ॥१८॥ मन्त्रिणस्ता नरेन्द्रस्य रात्रि परम सत्कृताः। ऊषुस्ते मुदिताः सर्वे गुणैः सर्वैस्समन्विताः॥ १९ ॥ इत्यार्षे बालकाण्डे अष्टषष्टितमः सर्गः ॥८॥ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः । राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥१॥ अद्य सर्वे धना ध्यक्षा धनमादाय पुष्कलम् । व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥२॥ चतुरङ्गंबलं चापि शीघ्रं निर्यात सर्वशः। ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ॥३॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । मार्कण्डेयः सुदीर्घायुर्ऋषिः कात्यायनस्तथा ॥४॥ एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याता हि त्वरयन्ति माम् ॥५॥ वचनात्तु नरेन्द्रस्य सासेना चतुरङ्गिणी। राजानमृषिभिः सार्द्ध वजन्तं पृष्ठतोऽन्वगात् ॥६॥ गत्वा चतुरहं मार्ग विदेहानभ्युपेयिवान् । राजा तु जनकः श्रीमान श्रुत्वा पूजामकल्पयत् ॥७॥ अथ दशरथस्य मिथिलागमनमेकोनसप्ततितमे-ततो राज्यामित्यादि ॥ १॥ धनाध्यक्षाः कोशरक्षाधिकृताः। पुष्कलं श्रेष्ठम् । “श्रेयान श्रेष्ठः पुष्कलः स्यात् " इत्यमरः । सुविहिताः सुसम्पादितकल्याणोचितकर्माणः ॥२॥ यानयुग्यमिति । यानं शिविकान्दोलिकादि, युग्यं स्थादि । सेनाङ्गत्वादेक वद्भावः ॥ ३॥ यथा कालात्ययः कालातिक्रमः न स्यात्तथा प्रयान्विति योजना ॥ ४-६॥ चतुरई चतुर्वहस्सु । श्रुत्वा दशरथमागतं श्रुत्वा । पूजाम् । विदेहेषु विदेहानां निवासदेशे जनपदे ॥ १५-१८ । मन्त्रिण इति । गुणैर्मन्त्रिगुणः। समन्विताः नरेन्द्रस्य जनकस्य मन्त्रिणः परमसत्कृताः सन्तः तो रात्रि तस्यां ॥१७॥ राज्यामपुरित्यर्थः ॥ १९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टषष्टितमः सर्गः ॥ ६८ ॥१॥ अवेति । पुष्कलं श्रेष्ठम् । सुविहिताः सुरक्षिताः ॥२॥ चतुरङ्गामति । यानयुग्यं यानमान्दोलिकादि, युग्यं वाहनादि ॥३-६॥ गत्वोति । चतुरहं चतुरहस्सु ॥७॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy