________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१७८॥
.रा.भू. मा कुर्वित्यर्थः ॥ ३३ ॥ पतिशोकेति । अनेन तदनन्तरमेव देवात् पतिमृत इति गम्यते । तस्मात् च्यवनानुग्रहात् ॥ ३४ ॥ सपत्न्येति । अत्र य इत्यतु टी.वा. कॉ. 1 सन्धेयम् । जात इत्यनन्तरं तेनेत्यनुसन्धेयम् ॥ ३५ ॥ ३६ ॥ प्रवृद्ध इति । पूर्व प्रवृद्धाख्यः ततो वसिष्ठशापात् पुरुषादकः राक्षसभूतः, ततः वसिष्ठं च्यवनं तु नमस्कृत्य राजपुत्री पतिव्रता । पतिशोकातुरा तस्मात् पुत्रं देवी व्यजायत॥ ३४ ॥ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । सह तेन गरेणैव जातः स सगरोऽभवत् ॥ ३५ ॥ सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान् । दिलीपोऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ ३६ ॥ मगस्यात्ककुत्स्थश्च ककुत्स्थस्य रघुस्सुतः ॥ ३७ ॥ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः । कल्माषपादो ह्यभवत्तत्माज्जातश्च शङ्खणः ॥ ३८॥ सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् । शीघ्रगस्त्वमिवर्णस्य शीघ्रगस्य मरुः सुतः । मरोः प्रशुश्रुकस्त्वासीदम्बरीषः पशुश्रुकात् ॥ ३९॥ अम्ब पस्य पुत्रोऽभून्नहुषः पृथिवीपतिः । नहुषस्य ययातिश्च नाभागस्तु ययातिजः ॥ ४० ॥ नाभागस्य बभ्रुवाज अजा दशरथोऽभवत् । अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ ४१ ॥ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम् । इक्ष्वाकु कुलजातानां वीराणां सत्यवादिनाम् ॥ ४२ ॥ रामलक्ष्मणयोरथ त्वत्सुते वरये नृप । सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥ ४३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ प्रतिशापायोद्धृतजलस्य स्वभार्यानुनयात् स्वपदप्रक्षेपेण कल्माषपादाख्यः || ३७-३९ ॥ नहुपययाती चन्द्रवंश्याभ्यामन्यौ । अत्र पुराणे क्रमवैषम्यं | कल्पभेदादिति ज्ञेयम् ||४०||११|| आदिवंशविशुद्धानाम्, आदित आरम्य वंशेन विशुद्धानाम् । राज्ञामिति सम्बन्धे षष्ठी ॥ ४२ ॥ वश्य इति । वरणस्य पुरोहितकृत्यत्वादितिभावः । सदृशे इति ङीवभाव आर्थः ॥ ४३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे • बालकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ च्यवनभिति । तस्मात च्यवनप्रसादात् ॥ ३४-३७॥ रघोरिति । प्रवृद्धः प्रवृद्धाख्यः पुरुषादकः रक्षसः वसिष्ठ शापादिति भावः । ततः वसिष्ठस्य प्रतिशापप्रदानार्थ मुद्धृतस्य जलस्य स्वपत्न्या मदयन्त्या अनुनयेन स्वपादयोरेव विसर्जनात कल्माषपादश्वाभूदिति भावः ॥ ३८-४१ ॥ आदीति । आदिवंशविशुद्धानाम् आदित और य विशुद्धवंशानां वीराणां सत्यवादिनामिति सम्बन्धे षष्ठी ॥ ४२ ॥ ४३ ॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणवालकाण्डच्या पायां सप्ततितमः सर्गः ॥ ७० ॥
For Private And Personal Use Only
स० [७०
॥१००॥