________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं वसिष्ठेन वरवंशकीर्तनपूर्वकं वधूवरणे कृते जनकः स्ववंशविशुद्धताज्ञापनपूर्वकं कन्याप्रदानं प्रतिजानीते एकसप्ततितमे एवं ब्रुवाणमित्यादि ॥३॥२॥
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः । श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ १ ॥ प्रदाने हि मुनि श्रेष्ठ कुलं निरवशेषतः । वक्तव्यं कुलजातेन तन्निबोध महामुने ॥ २ ॥ राजाभूत त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा । निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ ३॥ तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता । प्रथमो जनको नाम जनकादप्युदावसुः ॥ ४ ॥ उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्द्धनः । नन्दिवर्द्धनपुत्रस्तु सुकेतुर्नाम नामतः ॥ ६ ॥ सुकेतोरपि धर्मात्मा देवरातो महाबलः । देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ ६ ॥ बृहद्रथस्य शूरो भून्महावीरः प्रतापवान् । महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥ ७ ॥ सुधृतेरपि धर्मात्मा दृष्टकेतुः सुधार्मिकः । दृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः ॥ ८ ॥ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिन्धकः । प्रतिन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ ९ ॥ पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः । देवमीढस्य विबुधो विबुधस्य महकः ॥ १० ॥ महीधकसुतो राजा कीर्तिरातो महाबलः । कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ ११ ॥ महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत । स्वर्णरोम्णस्तु राजर्षेर्हस्वरोमा व्यजायत ॥ १२ ॥ तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः । ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १३ ॥
सत्त्ववत बलवताम् ॥३॥ प्रथम इति । मिथिमारभ्यास्माकं जनकसंज्ञेतिभावः ॥ ४-६ ॥ सुधृतिरित्यन्वर्थसंज्ञाज्ञापनार्थं विशेषणद्वयम् ॥ ७-१३ ॥ एवमिति ॥ १ ॥ प्रदान इति । कुलजातेन सत्कुलप्रसूतेन | मदाने कन्याप्रदाने विषये कुलं वक्तव्यम् ॥ २ ॥ ३ ॥ तस्येति । प्रथमो जनकः तत आरभ्य जनकशब्दवाच्याः ॥ ४-१३ ॥
For Private And Personal Use Only