________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
टी.वा.का. स. ७१
भारं भरणीयं, पोषणीयमिति यावत् ॥ १४ ॥ धुरं राज्यभारम् ॥ १५॥ कस्यचित्कालस्य कस्मिंश्चित्काले गते । अवरोधकः अवरोद्ध मित्यर्थः। "तुमुन्ण्वुलो क्रियायां कियार्थायाम्" इति ण्वुल् ॥ १६ ॥ १७ ॥ तस्य सुधन्वनः । अप्रदानात् सीताधनुषोरप्रदानात् ॥ १८॥१९॥ ते
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः। कुशध्वजंसमावेश्यभारंमयि वनं गतः॥१४॥वृद्ध पितरिस्वर्याते धर्मेण धुरमावहम् ।भ्रातरं देवसङ्काशं स्नेहात्पश्यन् कुशध्वजम् ॥१५॥ कस्य चित्त्वथ कालस्य साङ्काश्यादगमत् पुरात्।सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः॥१६॥ स च मे प्रेषयामास शैवं धनुरनुत्तमम् । सीता कन्याच पद्माक्षी मह्यं वै दीयतामिति ॥१७॥ तस्याऽप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह। स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १८॥ निहत्य तं मुनिश्रेष्ट सुधन्वानं नराधिपम् । साङ्काश्ये भ्रातरं वीरमभ्यषिञ्च कुशध्वजम् ॥१९॥ कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने । ददामि परमप्रीतो वध्वौ ते मुनिपुङ्गव ॥ २०॥ सीतां रामाय भद्रं ते ऊर्मिला लक्ष्मणाय च ॥२१॥ वीर्यशुल्का मम सुतां सीतां सुरसुतोपमाम् । द्वितीयामूर्मिलां चैव त्रिर्ददामि न
संशयः ॥२२॥ रामलक्ष्मणयो राजन गोदानं कारयस्व ह । पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥२३॥ वध्वौ ददामि स्नुपात्वेन ददामि । वसिष्ठेन वरणात्ते ददामीत्युक्तम् ॥२०॥ वध्वावित्युक्तं व्यवस्थया दर्शयति-सीतामित्यर्दैन ॥२१॥ उक्तमर्थ । सनिमित्तमुपपादयति-वीयति । वीर्यशुल्कामित्येतदूमिलाया अपि विशेषणम् । यद्यपि रामेणैव धनुर्भङ्गः कृतः तथापि तादृशशक्तेलक्ष्मणेऽपि दर्शना, तीर्यमेव ऊर्मिलाया अपि शुल्कमित्यर्थः । ऊर्मिला जनकस्यौरसपुत्री । त्रिः त्रिवारं त्रिभिः करणैर्वा ॥२२॥ गोदानं नाम, विवाहपूर्वसमयनियतं मां त्विति । कुशध्वज भारं भरणीयमिति यावत् । यद्वा कुशध्वज भारं राज्यभारं च मयि समावेश्य स्थापयित्वा वनं गत इत्यन्वयः ॥ १४ ॥ वृद्ध इति । धुरं राज्यभारम् ॥ १५ ॥ कस्यति । तस्यामदानात तस्य उभयस्य अप्रदानात् । साङ्काश्यमिति सुधन्वनगरनाम । अवरोधकोऽगमत अवरोबुमागतवानित्यर्थः १६-२१॥ वीर्यशुल्कामिति । निर्ददामि त्रिभिः करणैर्ददामीत्यर्थः ॥ २२ ॥ रामेति । गोदानं विवाहाङ्गभूतम् । वैवाहिक विवाहकाले कर्तव्यम् । पितृकार्य
१ संशयः । पदामि परमप्रीतो को वे रघुनन्दन । इषधिकः पाठः ।
१७९॥
For Private And Personal Use Only