Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१७५॥
यदि वो रोचत इति । यौनसम्बन्धयोग्यमिति शेषः । पर्ययः अतिक्रमः ॥ १७॥ मन्त्रिण इति । यो यात्रेत्यत्रबीदिति तदर्थमुयुध्वमितिभावः ॥१८॥ टी.बा.क. मन्त्रिणः जनकमन्त्रिणः। गुणैः सत्कारातिशयैः । तां रात्रि तस्यां राज्यामित्यर्थः॥ १९॥ इति श्रीगो• श्रीरा०म० बाल• अष्टषष्टितमः सर्गः ॥६८०६९
यदि वो रोचते वृत्तं जनकस्य महात्मनः । पुरीं गच्छामहे शीघ्रं माभूत्कालस्य पर्ययः ॥ १७ ॥ मन्त्रिणो बाढ मित्याहुः सह सर्वेमहर्षिभिः। सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति समन्त्रिणः ॥१८॥ मन्त्रिणस्ता नरेन्द्रस्य रात्रि परम सत्कृताः। ऊषुस्ते मुदिताः सर्वे गुणैः सर्वैस्समन्विताः॥ १९ ॥ इत्यार्षे बालकाण्डे अष्टषष्टितमः सर्गः ॥८॥ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः । राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥१॥ अद्य सर्वे धना ध्यक्षा धनमादाय पुष्कलम् । व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः॥२॥ चतुरङ्गंबलं चापि शीघ्रं निर्यात सर्वशः। ममाज्ञासमकालं च यानयुग्यमनुत्तमम् ॥३॥ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । मार्कण्डेयः सुदीर्घायुर्ऋषिः कात्यायनस्तथा ॥४॥ एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे। यथा कालात्ययो न स्याता हि त्वरयन्ति माम् ॥५॥ वचनात्तु नरेन्द्रस्य सासेना चतुरङ्गिणी। राजानमृषिभिः सार्द्ध वजन्तं पृष्ठतोऽन्वगात् ॥६॥
गत्वा चतुरहं मार्ग विदेहानभ्युपेयिवान् । राजा तु जनकः श्रीमान श्रुत्वा पूजामकल्पयत् ॥७॥ अथ दशरथस्य मिथिलागमनमेकोनसप्ततितमे-ततो राज्यामित्यादि ॥ १॥ धनाध्यक्षाः कोशरक्षाधिकृताः। पुष्कलं श्रेष्ठम् । “श्रेयान श्रेष्ठः पुष्कलः स्यात् " इत्यमरः । सुविहिताः सुसम्पादितकल्याणोचितकर्माणः ॥२॥ यानयुग्यमिति । यानं शिविकान्दोलिकादि, युग्यं स्थादि । सेनाङ्गत्वादेक वद्भावः ॥ ३॥ यथा कालात्ययः कालातिक्रमः न स्यात्तथा प्रयान्विति योजना ॥ ४-६॥ चतुरई चतुर्वहस्सु । श्रुत्वा दशरथमागतं श्रुत्वा । पूजाम् । विदेहेषु विदेहानां निवासदेशे जनपदे ॥ १५-१८ । मन्त्रिण इति । गुणैर्मन्त्रिगुणः। समन्विताः नरेन्द्रस्य जनकस्य मन्त्रिणः परमसत्कृताः सन्तः तो रात्रि तस्यां ॥१७॥ राज्यामपुरित्यर्थः ॥ १९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टषष्टितमः सर्गः ॥ ६८ ॥१॥ अवेति । पुष्कलं श्रेष्ठम् । सुविहिताः सुरक्षिताः ॥२॥ चतुरङ्गामति । यानयुग्यं यानमान्दोलिकादि, युग्यं वाहनादि ॥३-६॥ गत्वोति । चतुरहं चतुरहस्सु ॥७॥
For Private And Personal Use Only

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468