Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 434
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥॥१७६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "निशाम्य दृड्डा । " शमो दर्शने ” इति मित्वनिषेधान्न ह्रस्वः ॥ १७ ॥ जनकोऽपीति । यज्ञस्य क्रियाम् अवशिष्टक्रियाम् । सुताभ्यां पुत्र्योः 1 क्रियामडुरार्पणादिकम् ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९॥ अथ जनकेन सम्बन्धाईत्वायेक्ष्वाकुसन्तान कीर्तनं सप्ततितमे - ततः प्रभात इत्यादि । कृतकर्मा समाप्तयज्ञादिक्रियः ॥ १ ॥ भ्रातेत्यादि । अत्रत्यविशेष राजा च राघव पुत्रौ निशाम्य परिहर्षितः । उवास परमप्रीतो जनकेनाभिपूजितः ॥ १७ ॥ जनकोऽपि महातेजाः क्रियां धर्मेण तत्त्ववित् । यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥ १८ ॥ इत्यार्षे • बालकाण्डे एकोनसप्ततितमः सर्गः॥६९॥ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः । उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १ ॥ भ्राता मम महातेजा यवीयानतिधार्मिकः । कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ २ ॥ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम् । साङ्गाश्यां पुण्यसङ्काशां विमानमिव पुष्पकम् ॥ ३ ॥ णानां शतानन्दपरिज्ञातानामप्युपदेशः परम्परया दशरथादिश्रोत्रं प्रापयितुम् । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थे परिखारूपेणावस्थितायाम् इक्षुमत्यां वारिणि आकीर्णाः निखाताः फलकाश्शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तप्रदेशा यस्यास्ताम् । वार्यामलक पर्यन्तामिति पाठे - वार्यामलकाः आमलकविशेषास्तत्पर्यन्ताम् । पुण्यसङ्काशां पुण्यतुल्यां, पुण्यवत्स्ववासिनां स्वतएवाभीष्टप्रदामित्यर्थः । पुष्पकं विमानमिव स्थितां साङ्काइयां पुरीम् । इक्षुमतीं नदीं पिबन् तज्जलं पिबन्नित्यर्थः । अध्यवसत् अधिवसति । " उपान्वध्याङ्ग्वसः " इत्याधारस्य कर्मत्वम् ॥ २ ॥ ३ ॥ स्यान्ते ऋषिसम्मतं विवाहं निर्वर्तयितुमर्हसि ॥ १२-१६ ॥ राजा चेति । निशाम्य दृष्ट्वा ॥ १७ ॥ जनकोपीति । यज्ञस्यावशिष्टाः क्रियाः । सुताभ्यां दुहित्रोः । अङ्कुरार्पणादि क्रियाः कृत्वा ॥ १८ ॥ इति श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकोनसप्ततितमस्सर्गः ॥ ६९ ॥ तत इति । कृतकर्मा ऋषिभिः कृतप्रातः सवनाद्यनुष्ठानः ॥ १ ॥ भ्रातेत्यादि । इक्षुमतीं नदीं पिवन् तज्जलं पिबन्नित्यर्थः । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थं परिधारूपेणावस्थितायास्तस्या नद्याः वारिणि आकीर्णाः निखाताः फलकाः शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तदेशाः यस्यां ताम् । वार्यामलकपर्यन्तामिति क्वचित्पाठः । वार्या मलका: आमलकविशेषाः पर्यन्तेषु यस्यास्तां तथोक्ताम् । पुण्यसङ्काशाम् पुण्यशब्देन तत्फलभूतः स्वर्गे लक्ष्यते, तत्सङ्काशां स्वर्गोपमामित्यर्थः । पुष्पकं For Private And Personal Use Only टी.बा.कां. स०७० ॥ १७६ ॥

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468