Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.koba
.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.
टी.बा.का.
णात्" इति स्मृतेः॥९॥ अयामिति । शरणं रक्षणम् । जीवितमात्रेण जीवनप्रदानमात्रेण ॥१०॥ स्वनियोगकरणार्थमुपश्लोकयति-सर्व इति । प्रयच्छतेति बहुवचनेन युष्मासु यः कश्चन भवत्विति मुच्यते ॥ ११॥ नाथवानिति । मया रक्षितो नाथवान् भवतु । कृतं स्यादिति शेषः ॥ १२॥ मुनेरिति । साभिमानं सगर्वम् । सलीलं सपरिहासम् ॥ १३॥ कथमिति । भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थः। द्वितीय
अयं मुनिसुतो बालो मत्तश्शरणमिच्छति । अस्य जीवितमात्रेण प्रियं कुरत पुत्रकाः॥१०॥ सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः। पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥११॥ नाथवांश्च शुनःशेपो यज्ञश्चाविनितो भवेत् । देवतास्तर्पिताश्च स्युर्ममचापि कृतं वचः ॥ १२॥ मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः। साभिमानं नरश्रेष्ट सलीलमिदमब्रुवन् ॥ १३॥ कथमात्मसुतान हित्वा त्रायसेऽन्यसुतं विभो । अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १४ ॥ तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः । क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १५ ॥ निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् । अतिक्रम्य तु मद्राक्यं दारुणं रोमहर्षणम् ॥ १६ ॥श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु । पूर्ण वर्षसहस्रं तु टथिव्यामनुवत्स्यथ ॥ १७॥ कृत्वा शापसमायुक्तान पुत्रान मुनिवर
स्तथा। शुनःशेपमुवाचार्त कृत्वा रक्षां निरामयम् ॥ १८॥ [इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः।] इवशब्दो वाक्यालङ्कारे ॥ १४ ॥ तेषामिति ॥ १५॥ निःसाध्वसं पितृप्रतिवचनभयरहितम् । धर्मात् जीवतोर्वाक्यकरणरूपधर्मात् । विगर्हितं भ्रष्टम् । इदमुभयं क्रियाविशेषणम् । दारुणं पितृभक्तिरहिततया परुपम् । अतएव रोमहर्षणं रोमाञ्चविकारकरम् ॥ १६ ॥ श्वमांसेत्यादि । अत्रादौ तस्मादित्युपस्कार्यम् । जातिषु मुष्टिकजातिषु ॥ १७॥ कृत्वेति । निरामयं निर्भयं यथा भवति तथा। रक्षा मन्त्रितभस्मधूल्यादिप्रक्षेपरूपाम् ॥१८॥ काल आगतः॥९॥ अयमिति। जीवितमात्रेण जीवनप्रदानमात्रेण ॥ १०-१२ ॥ मुनेरिति । साभिमानं सगर्वम् । सलील सावज्ञम् ॥ १३ ॥ कथमिति । श्वमांसमिव भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वांसभक्षणमिव अकार्यमित्यर्थः ॥१४-१६ ॥ श्वांसेति । जातिषु मुष्टिकजातिषु ॥ १७ ॥ कृत्वेति । निरामयं त
॥१६॥
For Private And Personal Use Only

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468