Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
३१७१ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रभात इत्यादिना सर्गद्वयेन ॥ १ ॥ तमिति । राघवौ चार्चयित्वेत्यन्वयः । कर्मणा अर्घ्यप्रदानादिना ॥ २४ ॥ द्रष्टुकामौ भवत इति शेषः ॥ ५ ॥ अस्य दर्शनादेव कृतकामौ भूत्वा प्रतियास्यत इत्यन्वयः ॥ ६ ॥ ७ ॥ श्रूयतामिति । धनुः यदर्थं यत्प्रयोजनाय । इह अस्मद्गृहे तिष्ठति । अस्य धनुषः एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ ६ ॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ॥ ७ ॥ श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ८ ॥ देवरात इति ख्यातो निमेष्षष्ठो महीपतिः । न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना ॥ ९ ॥ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् । रुद्रस्तु त्रिदशान रोषात सलीलमिदमब्रवीत् ॥ १० ॥ यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः । वराङ्गाणि महार्हाणि धनुषा शातयामि वः ॥ ११ ॥ ततो विमनसः सर्वे देवा वै मुनिपुङ्गव । प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः ॥ १२ ॥ प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् । तदेतद्देवदेवस्य धनुरत्नं महात्मनः । न्यासभूतं तदा न्यस्तमस्माकं पूर्व विभो ॥१३॥ अथ मे कृषतः क्षेत्र लाङ्गलादुत्थिता मया । क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ १४॥ तत्प्रयोजनं श्रूयतामित्यर्थः ॥ ८ ॥ निमेः जनक कूटस्थस्य । न्यासः निक्षेपरूपम् ॥ २ ॥ उक्तमर्थं विवृणोति - दक्षेत्यादिना । आयम्य आकृष्य ॥ १० ॥ भागार्थिनः स्विष्टकृदादिभागार्थिनः । मे ममेत्यन्वयः । वराङ्गाणि शिरांमि । अत्र तस्मादित्युपस्कार्यम् । शातयामि छिनधि ॥ ११ ॥ विमनसः दीनाः । भवः रुद्रः || १२ || ददौ धनुरितिशेषः । धनूरनं धनुःश्रेष्ठम् । पूर्वके देवराते । न्यासभूतं न्यस्तं देवैरितिशेषः ॥ १३ ॥ अथेति । अथ वृत्तान्तान्तरा रम्भे । क्षेत्रं यागभूमिम् । मे कृषतः मयि कर्षतीत्यर्थः । चयनार्थमितिशेषः । 'लाङ्गलं पवीरखमिति द्वाभ्यामृषभेण कृषति' इत्यादिशास्त्रात् । लाङ्गलात् एतदिति । कृतकामौ प्राप्तकामी ॥ ६ ॥ ७ ॥ श्रूयतामिति । धनुर्यदर्थं यत्प्रयोजनार्थं तिष्ठति अस्य धनुषः तत् श्रूयतामित्यर्थः ॥ ८ ॥ देवरात इति । तस्य देवरातस्य । अयम् इदं धनुः ॥ ९ ॥ दक्षयजेति । आयम्य आकृष्य ॥ १० ॥ यस्मादिति । वराङ्गाणि शिरांसि ॥ ११ ॥ १२ ॥ प्रीतियुक्त इत्यादि । ददौ तेषा | मित्यत्र धनरत्नं कर्म । तदेतदिति । एतद्धनरत्नम् । अस्माकं पूर्वके देवराने न्यासभूतं न्यस्तम् देवैरिति विज्ञेयम् ॥ १३ ॥ अथेति । क्षेत्रं यागभूमिं कृषतः कर्षति सति । लाङ्गलादुत्थिता आविर्भूता । क्षेत्रं शोधयता गया लब्धेति नाम्ना सीतेति विश्रुता । सीता लाङ्गलपद्धतिः ततः प्रादुर्भूतेति तथोच्यते ॥ १४ ॥
For Private And Personal Use Only
टी. बा. कॉ. स० ६६
112921

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468