Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 425
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लाङ्गलपद्धतेरित्यर्थः । उत्थितेति, कन्येतिशेषः । सा च क्षेत्रं शोधयता मया लब्धेति हेतोर्नामा सविश्रुता आसीत् । सीता लाङ्गलपद्धतिः । सीतायां जातत्वात्सीतेत्युच्यते ॥ १४ ॥ व्यवर्द्धत मत्कृतपोपणादिति शेषः । अतो ममात्मजा । वीर्य धनुरारोपणं तदेव शुल्कं मूल्यं यस्याः सा वीर्य शुल्का । इति हेतौ । वीर्यशुल्कत्वात्स्थापिता न कस्मैचिद्दत्तेति भावः ॥ १५-१७ ॥ वीर्यजिज्ञासवः धनुः सारजिज्ञासवः । अभवन्निति शेषः ॥ १८ ॥ भूतलाडुत्थिता सा तु व्यवर्द्धत ममात्मजा । वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १५ ॥ भूतला दुत्थितां तु वर्द्धमानां ममात्मजाम् । वरयामासुरागम्य राजानो मुनिपुङ्गव ॥ १६ ॥ तेषां वरयतां कन्यां सर्वेषां ष्टथिवीक्षिताम् । वीर्यशुल्केति भगवन न ददामि सुतामहम् ॥ १७॥ ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव । मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा ॥ १८ ॥ तेषां जिज्ञासमानानां वीर्य धनुरुपाहृतम् । न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ १९ ॥ तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने । प्रत्याख्याता नृपतयस्तन्निबोध तपो धन ॥ २० ॥ ततः परमकोपेन राजानो नृपपुङ्गव । न्यरुन्धन् मिथिला सवै वीर्यसन्देहमागताः ॥ २१ ॥ आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवाः । रोषेण महताविष्टाः पीडयन मिथिला पुरीम् ॥ २२ ॥ ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः । साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः ॥ २३ ॥ तेषामिति । वीर्ये जिज्ञासमानानां तेषां कृते धनुः उपाहतं आनीतम् । ग्रहणे धारणे । तोलने भारपरीक्षार्थं हस्तेन चालने ॥ १९ ॥ तेषामिति । तन्निबोधेति तदित्यव्ययम् । तस्मात्कारणात् अनन्तरं यद्वृत्तं तन्निबोधेत्यर्थः ॥ २० ॥ वीर्यसन्देहं वीर्यशैथिल्यम् ॥ २१ ॥ मिथिलावरोधे निमित्तान्तरमाह-आत्मान मिति । ते नृपाः । आत्मानं स्वात्मानम् । मया अवधूतं वीर्यशुल्ककरणेन तिरस्कृतं विज्ञाय, पीडयन् अपीडयन् ॥ २२ ॥ साधनानि दुर्गरक्षण वीर्यशुल्का वीर्य धनुरारोपणरूपं शुल्कं विवाहे देयं यस्याः ॥ १५-१७ ॥ मिथिलामिति । वीर्य धनुस्सार जित्सवः अभवन्निति शेषः ॥ १८ ॥ तेषामिति । वीर्य जिज्ञासमानानां ग्रहणे धारणे, तोलने तोलनं नाम भारपरीक्षार्थी मुहुर्मुदुरुत्क्षेपणम् ॥ १९ ॥ तेषामिति । तन्निबोध तस्मान्निबोध ॥ २० ॥ तत इति । ॐ वीर्यसन्देहं वीर्यशैथिल्यम् ।। २१ ।। २२ ।। तत इति । साधनानि दुर्गरक्षणसाधनानि ॥ २३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468