________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाङ्गलपद्धतेरित्यर्थः । उत्थितेति, कन्येतिशेषः । सा च क्षेत्रं शोधयता मया लब्धेति हेतोर्नामा सविश्रुता आसीत् । सीता लाङ्गलपद्धतिः । सीतायां जातत्वात्सीतेत्युच्यते ॥ १४ ॥ व्यवर्द्धत मत्कृतपोपणादिति शेषः । अतो ममात्मजा । वीर्य धनुरारोपणं तदेव शुल्कं मूल्यं यस्याः सा वीर्य शुल्का । इति हेतौ । वीर्यशुल्कत्वात्स्थापिता न कस्मैचिद्दत्तेति भावः ॥ १५-१७ ॥ वीर्यजिज्ञासवः धनुः सारजिज्ञासवः । अभवन्निति शेषः ॥ १८ ॥ भूतलाडुत्थिता सा तु व्यवर्द्धत ममात्मजा । वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १५ ॥ भूतला दुत्थितां तु वर्द्धमानां ममात्मजाम् । वरयामासुरागम्य राजानो मुनिपुङ्गव ॥ १६ ॥ तेषां वरयतां कन्यां सर्वेषां ष्टथिवीक्षिताम् । वीर्यशुल्केति भगवन न ददामि सुतामहम् ॥ १७॥ ततः सर्वे नृपतयः समेत्य मुनिपुङ्गव । मिथिलामभ्युपागम्य वीर्यजिज्ञासवस्तदा ॥ १८ ॥ तेषां जिज्ञासमानानां वीर्य धनुरुपाहृतम् । न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ १९ ॥ तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने । प्रत्याख्याता नृपतयस्तन्निबोध तपो धन ॥ २० ॥ ततः परमकोपेन राजानो नृपपुङ्गव । न्यरुन्धन् मिथिला सवै वीर्यसन्देहमागताः ॥ २१ ॥ आत्मानमवधूतं ते विज्ञाय नृपपुङ्गवाः । रोषेण महताविष्टाः पीडयन मिथिला पुरीम् ॥ २२ ॥ ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः । साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः ॥ २३ ॥
तेषामिति । वीर्ये जिज्ञासमानानां तेषां कृते धनुः उपाहतं आनीतम् । ग्रहणे धारणे । तोलने भारपरीक्षार्थं हस्तेन चालने ॥ १९ ॥ तेषामिति । तन्निबोधेति तदित्यव्ययम् । तस्मात्कारणात् अनन्तरं यद्वृत्तं तन्निबोधेत्यर्थः ॥ २० ॥ वीर्यसन्देहं वीर्यशैथिल्यम् ॥ २१ ॥ मिथिलावरोधे निमित्तान्तरमाह-आत्मान मिति । ते नृपाः । आत्मानं स्वात्मानम् । मया अवधूतं वीर्यशुल्ककरणेन तिरस्कृतं विज्ञाय, पीडयन् अपीडयन् ॥ २२ ॥ साधनानि दुर्गरक्षण वीर्यशुल्का वीर्य धनुरारोपणरूपं शुल्कं विवाहे देयं यस्याः ॥ १५-१७ ॥ मिथिलामिति । वीर्य धनुस्सार जित्सवः अभवन्निति शेषः ॥ १८ ॥ तेषामिति । वीर्य जिज्ञासमानानां ग्रहणे धारणे, तोलने तोलनं नाम भारपरीक्षार्थी मुहुर्मुदुरुत्क्षेपणम् ॥ १९ ॥ तेषामिति । तन्निबोध तस्मान्निबोध ॥ २० ॥ तत इति । ॐ वीर्यसन्देहं वीर्यशैथिल्यम् ।। २१ ।। २२ ।। तत इति । साधनानि दुर्गरक्षणसाधनानि ॥ २३ ॥
For Private And Personal Use Only