________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चा.रा.भ. ॥१७२॥
टी.वा.का. स०६७
--
-
-
साधनानि ॥ २३ ॥ प्रसादयं प्रासादयम् ॥ २४ ॥ वीर्थसन्दिग्धाः सन्दिग्धवीर्याः । पापकर्मणः पापकर्माणः॥२५-२७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पदपष्टितमः सर्गः ॥ ६६ ॥ अथ धनुर्भङ्गादिवृत्तान्तः सप्तषष्टितमे-जनकस्येत्यादि ॥ १॥
ततो देवगणान् सर्वान् तपसाऽहं प्रसादयम् । ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ॥ २४ ॥ ततो भना नृपतयो हन्यमाना दिशो ययुः । अवीर्या वीर्यसन्दिग्धाः सामात्याः पापकर्मणः ॥ २५॥ तदेतन्मुनिशार्दूल धनुः परम भास्वरम् । रामलक्ष्मणयोश्चापि दशयिष्यामि सुत्रत ॥२६॥ यद्यस्य धनुषो रामः कुर्यादारोपणं मुने । सुतामयो निजां सीतां दद्या दाशरथेरहम् ॥२७॥ इत्या श्रीरामायणे वाल्मी आदिबालकाण्डे षट्षष्टितमः सर्गः॥६६॥ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः। धनुर्दर्शय राभाय इति होवाच पार्थिवम् ॥1॥ ततः स राजा जनकः सामन्तान व्यादिदेश ह । धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम् ॥ २॥ जनकेन समादिष्टाः सचिवाः प्राविशन पुरीम् । तदनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥३॥ नृणां शतानि पञ्चाशयायतानां महात्मनाम् ।
मधूषामष्टचक्रां तां समूहुस्ते कथंचन ॥४॥ सामन्तान् कर्मसचिवान् ।।२॥३॥ नृणामिति । व्यायताना दीर्घदेहानां नृणाम् । पञ्चाशत्शतानि पञ्चसहस्राणि । अष्टचक्रां अष्टचक्रवच्छकटारोपिता मित्यर्थः । मञ्जूषां धनुष्पेटिकाम् । समूहुः आचकर्षुः । ते च पञ्चसहस्रसञ्चाविशिष्टा अपि कथंचन महता प्रयत्नेन समूहुरितियोजना । अन्ये तु त इति। वीर्यसन्दिग्धाः सन्दिग्धवीर्याः।२५-२॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्वदीषिकारयायां बालकाण्डव्याख्यायां षट्पष्टितमः सर्गः ॥६६ जनकस्येति । धनुर्दर्शय रामायेति-आरोपयिष्यति सीतां प्रतिग्रहीप्यतीति भावः ॥ १ ॥ सचिवान-समीपे विद्यमानान् ॥ २ ॥ ३ ॥ नृणामिति । च्यायतानाम् दीर्घदेहानाम्। पञ्चाशच्छतानि पञ्चसहस्त्राणि । अष्टचक्रा रथाङ्गाष्टकबुताम् । मञ्जूषां धनु-पेटिकाम् । उहुः आचकर्षुः । ते पञ्चसहस्रसङ्ख्या
१७२॥
१ सचिवान । इति वायपायः ।
For Private And Personal Use Only