________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मष्टचक्राम् अष्टापश्चरक्षाबन्धवतीम्, अछुः हस्तैरिति शेष इत्याहुः॥१॥ यत्र मञ्जूषायाम् ॥५॥ इदमिति । यद्धनुर्दर्शनीयमिच्छसि तदिदं धनुः, जानीतमिति शेषः॥६॥ तो चोभाविति । उद्दिश्येतिशेषः॥७॥ राजभिः पूर्व सीतार्थिभिः। पूजितम् अहो महासारमैश्वरं धनुरिति शाषित
तामादाय तु मञ्जूषामायसी यत्र तद्धनुः । सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिगः ॥५॥ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः । मिथिलाधिप राजेन्द्र दर्शनीयं यदिच्छसि ॥६॥ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत । विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥ ७ ॥ इदं धनुर्वरं ब्रह्मन जनकैरभिपूजितम् । राजभिश्च महावीर्य रशक्तैः पूरितुं पुरा॥८॥ नैतत् सुरगणाः सर्वे नासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥९॥ क्व गतिमानुषाणां च धनुषोऽस्य प्रपूरणे। आरोपणे समायोगे वेपने तोलनेऽपि वा ॥१०॥ तदेतद्धनुषा श्रेष्ठमानीतं मुनिपुङ्गव । दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥११॥ विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स
राम धनुः पश्य इति राघवमब्रवीत् ॥ १२॥महर्वचनाद्रामो यत्र तिष्ठति तद्धनुः । मञ्जूषां तामपावृत्य दृष्ट्वा धनु । स्थाब्रवीत् ॥ १३ ॥ इदं धनुर्वरं ब्रह्मन संस्टशामीह पाणिना। यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा ॥ १४॥ मित्यर्थः ॥ ८॥ नैतदित्यादि । एतद्धनुः सुरगणादयः प्रपूरणादिकं कर्तुन शक्ता इत्यर्थसिद्धम् ॥९॥केति । प्रपूरणे नम्रीकरणे । आरोपणे मौऱ्या संयोजने । समायोगे शरेण योजने वेपने मौाकर्षणे । तोलने भारपरीक्षार्थ कम्पने च । मानुषाणां मध्ये व पुरुषे गतिः शक्तिः॥१०॥ तथाप्यनयो दर्शयेत्याह-तदेतदिति ॥ ११ ॥ १२॥ अपावृत्त्य अपगतावरणं कृत्वा ॥ १३॥ १४॥ विशिष्टा अपि कथञ्चन महता प्रयत्नेन अहुरिति वाक्यभेदः करणीयः ॥ ४॥ आयसीम् अष्टलोहनिर्मिताम् । सुरोपममिति जनकविशेषणम् ॥५-८॥ नैत दित्यादि । अब श्लोके उत्तरलोकोक्तान आरोपणादीन शब्दान तुमुनन्तान् कृत्वा एतद्धनुः पूरयितुं कर्णान्तमात्रष्टुम् आरोपयितुं मौा संयोजयितुम्-शरेण योज। यितुम् मौर्षीमाक्रष्टुं वेपयितुं ज्या चिक्षेपयितुं तोलयितुं भारपरीक्षार्थ कम्पयितुं देवाइयो न शक्ता इति योजनीयम् ॥ ९ ॥ क गतिरिति । मानुषाणांच गतिः आरोपणादिषु शक्तिनैवेत्यर्थः ॥ १०-१२ ॥ ब्रह्मरिति । अपावृत्य विजुतां कृत्वा (ब्रह्मरिति पाठः)॥ १३-१५॥
For Private And Personal Use Only