________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.गं.भ. ॥१७३॥
वा धर्मात्मा कम्पश्च सुमहावी ॥ १९ ॥
बाढमित्यादि ॥ १५॥ लीलया अप्रयत्नेन ॥१६॥ पूरयामास आकर्णमाकृष्टवान् । ननु उक्तरीत्या महोत्रतस्य धनुषः कथं बालेनारोपणं संभवति जटी.बा. अग्रस्पर्शाभावादितिचेत्; उच्यते-आश्चर्यशक्तिकस्य रामस्य करस्पर्शादेवावनतं धनुः॥ १७॥ निर्यातेति । तल्लक्षणमुक्तं ज्योतिषे-" वायुना Mस भिडतो वायुगगनात्पतति क्षिती। यदा दीप्तः खगरुतः स निर्घातोतिदोषकृत " इति । पर्वतस्येव दीर्यतः पर्वते दीर्यति भिद्यति यथा भूमिकम्पः।
बढिमित्यब्रवीद्राजा मुनिश्चसमभाषत ॥ १५॥ लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः। पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ॥६॥ आरोपयित्वा धर्मात्मा पूरयामास तद्धनुः।तद्वभञ्ज धनुमध्ये नरश्रेष्ठो महायशाः॥१७॥ तस्य शब्दो महानासीनिर्घातसमनिस्वनः। भूमिकम्पश्च सुमहान पर्वतस्येव दीर्यतः ॥ १८॥ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः । वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥ १९ ॥ प्रत्याश्वस्ते जने तस्मिन राजा विगतसाध्वसः । उवाच प्राञ्जलिवाक्यं वाक्यज्ञो मुनिपुङ्गवम् ॥२०॥ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः।
अत्यद्भुतमचिन्त्यं च न तर्कितमिदं मया ॥२१॥ जनकानां कुले कीर्तिमाहरिष्यति मे सुता। सीता भर्तार मासाद्य रामं दशरथात्मजम् ॥२२॥ तथा भूमिकम्पश्चासीदित्यर्थः ॥ १८॥ १९॥ विगतसाध्वस इत्यनेन रामजामातृकताप्रापकं धनुरारोपणमपि न भवेदिति पूर्व भीतोऽभूदिति गम्यते । ॥२०॥ अत्यद्भुतमिति । अचिन्त्यम् अन्यत्रादर्शनात्, न तर्कितं मनुष्येष्वसम्भावितत्वात् । अत्यद्भुतं बालेन कृतत्वात् । इदम् ईशधनुरारोपणम् ॥२॥ जनकानामिति । जनकानाम्-"अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥” इति प्रोक्तनिरति शयकीतिमतामपि । कुले "कुलं तारयते तात सप्त सप्त च सप्त च" इतिवत् । कीर्तिमित्येकवचनेनेकरूपत्वं व्यज्यते । आहरिष्यति सद्यः प्राप ॥१७३॥ लीलयेति । लीलया अप्रयत्नेनैव ॥ १६ ॥ १७ ॥ तस्यति । निर्घातः अशनिध्वनिः ॥ १८-२१॥ जनकानामिति । आहरिष्यति सम्पादयिष्यति ॥२२-२४॥
१ वाढमित्येष त राजा । २ आरोपवत्स धर्मात्मा सलीलमित्र तनुः । हाते पाठान्तरम् ।
For Private And Personal Use Only