SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ३१७१ ॥ www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir प्रभात इत्यादिना सर्गद्वयेन ॥ १ ॥ तमिति । राघवौ चार्चयित्वेत्यन्वयः । कर्मणा अर्घ्यप्रदानादिना ॥ २४ ॥ द्रष्टुकामौ भवत इति शेषः ॥ ५ ॥ अस्य दर्शनादेव कृतकामौ भूत्वा प्रतियास्यत इत्यन्वयः ॥ ६ ॥ ७ ॥ श्रूयतामिति । धनुः यदर्थं यत्प्रयोजनाय । इह अस्मद्गृहे तिष्ठति । अस्य धनुषः एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ। दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ ६ ॥ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ॥ ७ ॥ श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ८ ॥ देवरात इति ख्यातो निमेष्षष्ठो महीपतिः । न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना ॥ ९ ॥ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् । रुद्रस्तु त्रिदशान रोषात सलीलमिदमब्रवीत् ॥ १० ॥ यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः । वराङ्गाणि महार्हाणि धनुषा शातयामि वः ॥ ११ ॥ ततो विमनसः सर्वे देवा वै मुनिपुङ्गव । प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः ॥ १२ ॥ प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् । तदेतद्देवदेवस्य धनुरत्नं महात्मनः । न्यासभूतं तदा न्यस्तमस्माकं पूर्व विभो ॥१३॥ अथ मे कृषतः क्षेत्र लाङ्गलादुत्थिता मया । क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥ १४॥ तत्प्रयोजनं श्रूयतामित्यर्थः ॥ ८ ॥ निमेः जनक कूटस्थस्य । न्यासः निक्षेपरूपम् ॥ २ ॥ उक्तमर्थं विवृणोति - दक्षेत्यादिना । आयम्य आकृष्य ॥ १० ॥ भागार्थिनः स्विष्टकृदादिभागार्थिनः । मे ममेत्यन्वयः । वराङ्गाणि शिरांमि । अत्र तस्मादित्युपस्कार्यम् । शातयामि छिनधि ॥ ११ ॥ विमनसः दीनाः । भवः रुद्रः || १२ || ददौ धनुरितिशेषः । धनूरनं धनुःश्रेष्ठम् । पूर्वके देवराते । न्यासभूतं न्यस्तं देवैरितिशेषः ॥ १३ ॥ अथेति । अथ वृत्तान्तान्तरा रम्भे । क्षेत्रं यागभूमिम् । मे कृषतः मयि कर्षतीत्यर्थः । चयनार्थमितिशेषः । 'लाङ्गलं पवीरखमिति द्वाभ्यामृषभेण कृषति' इत्यादिशास्त्रात् । लाङ्गलात् एतदिति । कृतकामौ प्राप्तकामी ॥ ६ ॥ ७ ॥ श्रूयतामिति । धनुर्यदर्थं यत्प्रयोजनार्थं तिष्ठति अस्य धनुषः तत् श्रूयतामित्यर्थः ॥ ८ ॥ देवरात इति । तस्य देवरातस्य । अयम् इदं धनुः ॥ ९ ॥ दक्षयजेति । आयम्य आकृष्य ॥ १० ॥ यस्मादिति । वराङ्गाणि शिरांसि ॥ ११ ॥ १२ ॥ प्रीतियुक्त इत्यादि । ददौ तेषा | मित्यत्र धनरत्नं कर्म । तदेतदिति । एतद्धनरत्नम् । अस्माकं पूर्वके देवराने न्यासभूतं न्यस्तम् देवैरिति विज्ञेयम् ॥ १३ ॥ अथेति । क्षेत्रं यागभूमिं कृषतः कर्षति सति । लाङ्गलादुत्थिता आविर्भूता । क्षेत्रं शोधयता गया लब्धेति नाम्ना सीतेति विश्रुता । सीता लाङ्गलपद्धतिः ततः प्रादुर्भूतेति तथोच्यते ॥ १४ ॥ For Private And Personal Use Only टी. बा. कॉ. स० ६६ 112921
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy