Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 394
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir वा.रा.भू. अथ सर्वास्त्रबलसम्पूर्णक्षत्रवीर्यादपि ब्रह्मबलं बलीयइत्याह षट्पञ्चाशे एवमुक्त इत्यादि । तिष्ठतिष्ठेति भयजननाथक्तिः ॥ १ ॥ ब्रह्मदण्डमित्यादित्रयो ॥१५६॥ विंशतिः । ब्रह्मदण्डमिति । ब्रह्मदण्डं ब्राह्मणासाधारणं दण्डम् ॥ २ ॥ क्षत्रबन्धो क्षत्रियाधम ! ते दर्प तव शस्त्रस्य दर्प च नाशयामीत्यन्वयः । क्षत्रिय एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः । आग्नेयमस्त्रमुत्क्षिप्य तिष्ठतिष्ठेति चाब्रवीत ॥ १ ॥ ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ २ ॥ क्षत्रबन्धो स्थितोऽस्म्येष यद्वलं तद्विदर्शय । नाशयाम्यद्य ते दर्प शस्त्रस्य तव गाधिज ॥ ३ ॥ क्व च ते क्षत्रियवलं क च ब्रह्मबलं महत् । पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ ४ ॥ तस्यास्त्रं गाधिपुत्रस्य घोरमाने यमुद्यतम् । ब्रह्मदण्डेन तच्छान्तम इवाम्भूसा ॥ ५ ॥ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा । ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ ६ ॥ मानवं मोहनं चैव गान्धर्व स्वापनं तथा । जृम्भणं मादनं चैव सन्तापनविलापने ॥ ७ ॥ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् । ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥ पैनाकास्त्रं च दयितं शुष्काई अशनी उभे । दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥ धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च । वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥ शक्ति द्वयं च चिक्षेप कङ्कालं मुसलं तथा । वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥ त्रिशूलमस्त्रं घोरं च कापालथ कङ्कणम् । एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १२ ॥ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ॥ १३ ॥ तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १४ ॥ तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ॥ १५ ॥ तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्रिपुरोगमाः । देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः ॥ १६ ॥ पांसनेत्यनन्तरं वसिष्ठोऽब्रवीदिति अनुकृष्यते ॥३- १२ ॥ वसिष्ठे जपतां श्रेष्ठ इत्यनेन जपवैभवमिदं प्रसनमिति द्योतितम् । तत् अस्त्रक्षेपणम् । अद्भुत मिवाभवत् कार्यलेशस्याप्यदर्शनादितिभावः ॥ १३ ॥ अद्भुतमेवाह-तानीति । ग्रसते अग्रसत ||१४|| १२ || सम्भ्रान्ता आसन्नितिशेषः ॥ १६ ॥ एवमुक्त इति ॥ १ ॥ २ ॥ क्षत्रबन्धो इति । क्षत्रबन्धो क्षत्रियाधम ! क्षत्रिय पांसनेत्यतः परमब्रवीदित्यनुकृप्यते ।। ३-१६ ।। For Private And Personal Use Only टी.बा.की. म० ५६ | ।।१५६॥

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468