Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
• वत्यां पश्चिमायां दिशि वर्तमानेषु पुष्करेषु पुष्करतीर्थेषु तत्तीरेष्वित्यर्थः । महात्मनः हे महात्मानः ॥ ३ ॥ एवमित्यादि ॥ ४ ॥ ५ ॥ विप्रः पुरो हित इति यावत् ॥ ६ ॥ पशुरिति । दुर्नयात् अनवधानादित्यर्थः । हृतः केनापीति शेषः । प्रणष्टः अदृष्टः । " णश अदर्शने " इतिधातोर्निष्टा । || दोषाः पशुनाशादयः ॥ ७ ॥ प्रायश्चित्तमिति । प्रायश्चित्तम् एतत् पशुनाशनिमित्तकम् । नरं वा आनयस्व, गोभिः क्रीत्वा पशुप्रतिनिधित्वेनेति शेषः ।
एवमुक्ता महातेजाः पुष्करेषु महामुनिः । तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥ एतस्मिन्नेव काले तु अयो ध्याधिपतिर्नृपः । अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह । प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६ ॥ पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ ७ ॥ प्रायश्चित्तं महद्धयेतन्नरं वा पुरुषर्षभ । आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ ८ ॥ उपाध्याय `वचः श्रुत्वा स राजा पुरुषर्षभ (भः) । अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥ देशान् जनपदांस्तांस्तान नग राणि वनानि च । आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥ स पुत्रसहितं तात सभार्यं रघुनन्दन । भृगुतुन्दे समासीनमृचीकं संददर्श ह ॥ ११ ॥
Acharya Shri Kalassagarsuri Gyanmandir
यावत्प्रवर्तते प्रवर्तिष्यते । “यावत्पुरानिपातयोः -” इति लट् । तावत् ततः पूर्वमेव । अश्वमेधे पशुविसर्जनानन्तरं कर्मकालस्य व्यवहितत्वादिति भावः । वाकारेण पशुं वान्विष्यानयस्वेति लभ्यते ॥ ८ ॥ उपाध्यायेति । सहस्रशः सहस्रसङ्घयाभिः । मूल्यभूताभिरितिशेषः ॥ ९ ॥ देशानित्यादि । देशानिति जनपदादिसर्वविशेषणम् ॥ १० ॥ स इति छेदः । भृगुतुन्दे भृगोर्गिरितटस्य तुन्दे अभ्यन्तरे, भृग्वाख्यऋषिवासस्थानप्रदेशे वा ॥ ११ ॥
असम्बाधायामितियावत् । पुष्करेषु तीर्थेषु । महात्मनः हे महात्मानः ! ॥ ३५ ॥ तस्येति । विप्रः पुरोहितः ॥ ६ ॥ पशुरिति । हृतः अपहृतः, तब दुर्नयात त्वत्प्रमादात ॥ ७ ॥ प्रायश्चित्तमिति । एतत्पशुनाशनिमित्तं प्रायश्चित्तं महदुदुष्करम्, प्रक्रान्तं कर्म यावत्प्रवर्तते प्रवर्त्तिष्यते तावत्ततः पूर्वमेव नष्टं वा पशु मन्विष्यानय, तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थः ॥ ८ ॥ गोभिर्मूल्यभूताभिः ॥९॥ १० ॥ भृगुतुङ्गे भृगुतुङ्गाख्ये पर्वते (भृगु तुङ्ग इति पाठः) ॥ ११ ॥
For Private And Personal Use Only

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468