SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org • वत्यां पश्चिमायां दिशि वर्तमानेषु पुष्करेषु पुष्करतीर्थेषु तत्तीरेष्वित्यर्थः । महात्मनः हे महात्मानः ॥ ३ ॥ एवमित्यादि ॥ ४ ॥ ५ ॥ विप्रः पुरो हित इति यावत् ॥ ६ ॥ पशुरिति । दुर्नयात् अनवधानादित्यर्थः । हृतः केनापीति शेषः । प्रणष्टः अदृष्टः । " णश अदर्शने " इतिधातोर्निष्टा । || दोषाः पशुनाशादयः ॥ ७ ॥ प्रायश्चित्तमिति । प्रायश्चित्तम् एतत् पशुनाशनिमित्तकम् । नरं वा आनयस्व, गोभिः क्रीत्वा पशुप्रतिनिधित्वेनेति शेषः । एवमुक्ता महातेजाः पुष्करेषु महामुनिः । तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥ ४ ॥ एतस्मिन्नेव काले तु अयो ध्याधिपतिर्नृपः । अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥ ५ ॥ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह । प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥ ६ ॥ पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् । अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥ ७ ॥ प्रायश्चित्तं महद्धयेतन्नरं वा पुरुषर्षभ । आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ ८ ॥ उपाध्याय `वचः श्रुत्वा स राजा पुरुषर्षभ (भः) । अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥ ९ ॥ देशान् जनपदांस्तांस्तान नग राणि वनानि च । आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥ १० ॥ स पुत्रसहितं तात सभार्यं रघुनन्दन । भृगुतुन्दे समासीनमृचीकं संददर्श ह ॥ ११ ॥ Acharya Shri Kalassagarsuri Gyanmandir यावत्प्रवर्तते प्रवर्तिष्यते । “यावत्पुरानिपातयोः -” इति लट् । तावत् ततः पूर्वमेव । अश्वमेधे पशुविसर्जनानन्तरं कर्मकालस्य व्यवहितत्वादिति भावः । वाकारेण पशुं वान्विष्यानयस्वेति लभ्यते ॥ ८ ॥ उपाध्यायेति । सहस्रशः सहस्रसङ्घयाभिः । मूल्यभूताभिरितिशेषः ॥ ९ ॥ देशानित्यादि । देशानिति जनपदादिसर्वविशेषणम् ॥ १० ॥ स इति छेदः । भृगुतुन्दे भृगोर्गिरितटस्य तुन्दे अभ्यन्तरे, भृग्वाख्यऋषिवासस्थानप्रदेशे वा ॥ ११ ॥ असम्बाधायामितियावत् । पुष्करेषु तीर्थेषु । महात्मनः हे महात्मानः ! ॥ ३५ ॥ तस्येति । विप्रः पुरोहितः ॥ ६ ॥ पशुरिति । हृतः अपहृतः, तब दुर्नयात त्वत्प्रमादात ॥ ७ ॥ प्रायश्चित्तमिति । एतत्पशुनाशनिमित्तं प्रायश्चित्तं महदुदुष्करम्, प्रक्रान्तं कर्म यावत्प्रवर्तते प्रवर्त्तिष्यते तावत्ततः पूर्वमेव नष्टं वा पशु मन्विष्यानय, तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थः ॥ ८ ॥ गोभिर्मूल्यभूताभिः ॥९॥ १० ॥ भृगुतुङ्गे भृगुतुङ्गाख्ये पर्वते (भृगु तुङ्ग इति पाठः) ॥ ११ ॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy