________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
॥१६॥
स०६१
तमिति, साई एकान्वयः। तं मुनिम् । इदं वक्ष्यमाणं वच उवाच । (ब्रवीति) ब्रुवतिर्दिकर्मकः॥१२॥ गवामिति । पशोः अर्थे प्रयोजनाय, पशुप्रतिनिध्यर्थ मित्यर्थः । यदि विक्रीणीषे विक्रीणीथाः । तदा कृतकृत्योऽस्मि कृतार्थः स्याम् ॥१३॥ सर्व इति । परिमृताः सञ्चरिताः। याज्ञीयं यज्ञाय हितम् । “तस्मै |
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च ।ब्रह्मर्षि तपसा दीप्तं राजर्षिरमितप्रभः। दृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः॥ १२ ॥ गवां शतसहस्रेण विक्रीणीषे सुतं यदि । पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ॥ १३॥ सर्वे परिसृता देशा याज्ञीयं न लभे पशुम् । दातुमर्हसि मूल्येन सुतमेकमितो मम॥१४॥ एवमुक्तो महातेजा ऋचीक स्त्वब्रवीद्वचः । नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन ॥ १५॥ ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् । उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥१६॥ अविक्रेयं सुतं ज्यष्टं भगवानाह भार्गवः । ममापि दयितं विद्धि कनिष्ठं शुनकं नृप। तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥१७॥ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः ।मातृणां च कनीयांसस्तस्माद्रक्षे कनीयसम् ॥ १८॥ उक्तवाक्ये मुनौ तस्मिन मुनिपन्यां तथैव च । शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥ १९॥ पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् । विक्रीतं मध्यमं मन्ये राजन पुत्र नयस्व माम्॥२०॥ गवां शतसहस्रेण शुनःशेपं नरेश्वरः । गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥२१॥ अम्बरीषस्तु
राजर्षी रथमारोप्य सत्वरः।शुनःशेपं महातेजाजगामाशुमहायशाः॥२२॥इत्यार्षे बालकाण्डे एकषष्टितमःसर्गः॥६॥ हितम्" इति छः । वृद्धिरापी । इतः एतेषु सुतेषु । सार्वविभक्तिकस्तसिः॥१४॥ एवमिति । कथंचन बहुमूल्येनापि । इतरयोरप्रतिषेधादनुमतिर्गम्यते । “अप्रतिषिद्धमनुमतं भवति" इति न्यायात् । शास्त्रेणापत्यदानविक्रययोनिषेपि मूलावसाने धर्मायापत्यदानवद्यज्ञायापत्यविक्रयो न दोषायेति | भावः ॥१५॥१६॥ कनीयसमित्यकरान्तत्वमार्षम् ॥१७-२२॥ इति श्रीगो श्रीरामा० मणिमञ्जीराख्याने बालकाण्डव्या० एकपष्टितमः सर्गः॥६॥ इदं वक्ष्यमाणं वचः अबवीदिति शेषः ॥ १२ ॥ यदि विक्रीणीषे विक्रीणीयाः तहिं कृतकृत्योऽस्मीति कृतार्थः स्यामित्यर्थः ॥ १३ ॥ सर्व इति । इतः एतेषु सुतेषु मध्ये एकं सुतम् ॥ १४ ॥ नाहमिति । ज्येष्ठं कथश्चन महतापि मूल्येन न विक्रीणीयाम्, अनेनेतरयोरप्रतिषेधादनुमतिर्गम्पते । अप्रतिषिद्धमनुमतं भवति इति न्यायात् ॥ १५-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां तत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो एकषष्ठितमः सर्गः॥ ६१॥
॥१६॥
For Private And Personal Use Only