________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
अथ शुनःशेपस्य शरणागतिरुच्यते द्विषष्टितमे—–शुनःशेपमित्यादि ॥ १|| तस्य विश्रममाणस्य तस्मिन्विश्राम्यति सति । आगम्येत्यत्र "वा ल्यपि" इत्यनु नासिकलोपाभावः पक्षे । मातुलं "ऋचीकाय कौशिकी प्रतिपादिता" इत्युक्तत्वात् ॥२॥ तृष्णया पिपासया, प्राणपरित्राणलोभेन वा । श्रमेण अध्यश्रमेण । शुनःशेषं नरश्रेष्ठ गृहीत्वा तु महायशाः । व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १ ॥ तस्य विश्रममाणस्य शुनःशेपो महायशाः । पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह । तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ॥ २ ॥ विवर्णवदनो दीनस्तृष्णया च श्रमेण च । पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ॥ ३ ॥ न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः । त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ॥ ४ ॥ त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ ५ ॥ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः । स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ ६ ॥ त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा । पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ ७ ॥ तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः । सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ ८ ॥ यत्कृते पितरः पुत्रान् जनयन्ति शुभा र्थिनः । परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ९ ॥
|| मातुलत्वादङ्कपतनम् ॥ ३ ॥ नेति । नास्ति अरक्षकत्वादसत्प्राया इत्यर्थः । धर्मेण धर्मरूपप्रयोजनोद्देशेन ॥ ४ ॥ त्रातेत्यर्द्धम् | भावनः हितप्रापकः ॥ ६ ॥ राजेति । यथा च राजा कृतकार्यः स्यात् अहं च अव्ययः अविनाशः दीर्घायुः अनुत्तमं तपस्तत्वा स्वर्गलोकमुपाश्रीयां तथा कुरुष्वेति शेषः ॥ ६ ॥ त्वमिति । भव्येन शुभेन । किल्बिषात् तन्मूलकविपत्तेरित्यर्थः ॥ ७ ॥ तस्येति स्पष्टम् ॥ ८ ॥ यदिति । यस्य प्रयोजनस्य कृते यत्प्रयोज नाय । तादर्थेऽव्ययम्। पुत्रान् जनयन्ति । मम युष्माकं च परलोकहितार्थाय धर्माय, तस्य वाक्यकरणस्य। अयं काल आगतः । " जीवतोर्वाक्यकर ॥१॥ तस्य विश्रममाणस्य विश्राम्यतः ॥ २ ॥ विवर्णेति । तृष्णया प्राणपरित्राणलोभेन । अङ्के समीपे ॥ ३॥४॥ त्रातेति । त्वं हि त्राता । भावनः हितप्रापकः ॥ ५ ॥ राजा चेति । राजा च यया कृतकार्यः स्यात्, अहं च दीर्घायुर्यथा स्यां तथा कुर्वित्यर्थः ॥ ६-८ ॥ यदिति । यत्कृते यस्य प्रयोजनस्य कृते प्रयोजनं च पितृवाक्य करणम् " जीवतोर्वाक्यकरणात् " इति स्मृतेः । मम युष्माकं च परलोकहितार्थाय परलोकहितोऽर्थः प्रयोजनं यस्य तस्मै धर्माय । तस्य वाक्यकरणस्य अयं
For Private And Personal Use Only