________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भू.
अथ सर्वास्त्रबलसम्पूर्णक्षत्रवीर्यादपि ब्रह्मबलं बलीयइत्याह षट्पञ्चाशे एवमुक्त इत्यादि । तिष्ठतिष्ठेति भयजननाथक्तिः ॥ १ ॥ ब्रह्मदण्डमित्यादित्रयो ॥१५६॥ विंशतिः । ब्रह्मदण्डमिति । ब्रह्मदण्डं ब्राह्मणासाधारणं दण्डम् ॥ २ ॥ क्षत्रबन्धो क्षत्रियाधम ! ते दर्प तव शस्त्रस्य दर्प च नाशयामीत्यन्वयः । क्षत्रिय एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः । आग्नेयमस्त्रमुत्क्षिप्य तिष्ठतिष्ठेति चाब्रवीत ॥ १ ॥ ब्रह्मदण्डं समुत्क्षिप्य कालदण्डमिवापरम् । वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ २ ॥ क्षत्रबन्धो स्थितोऽस्म्येष यद्वलं तद्विदर्शय । नाशयाम्यद्य ते दर्प शस्त्रस्य तव गाधिज ॥ ३ ॥ क्व च ते क्षत्रियवलं क च ब्रह्मबलं महत् । पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ ४ ॥ तस्यास्त्रं गाधिपुत्रस्य घोरमाने यमुद्यतम् । ब्रह्मदण्डेन तच्छान्तम इवाम्भूसा ॥ ५ ॥ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा । ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ ६ ॥ मानवं मोहनं चैव गान्धर्व स्वापनं तथा । जृम्भणं मादनं चैव सन्तापनविलापने ॥ ७ ॥ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम् । ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ ८ ॥ पैनाकास्त्रं च दयितं शुष्काई अशनी उभे । दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ ९ ॥ धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च । वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥ शक्ति द्वयं च चिक्षेप कङ्कालं मुसलं तथा । वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥ त्रिशूलमस्त्रं घोरं च कापालथ कङ्कणम् । एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १२ ॥ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ॥ १३ ॥ तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १४ ॥ तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ॥ १५ ॥ तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्रिपुरोगमाः । देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः ॥ १६ ॥ पांसनेत्यनन्तरं वसिष्ठोऽब्रवीदिति अनुकृष्यते ॥३- १२ ॥ वसिष्ठे जपतां श्रेष्ठ इत्यनेन जपवैभवमिदं प्रसनमिति द्योतितम् । तत् अस्त्रक्षेपणम् । अद्भुत मिवाभवत् कार्यलेशस्याप्यदर्शनादितिभावः ॥ १३ ॥ अद्भुतमेवाह-तानीति । ग्रसते अग्रसत ||१४|| १२ || सम्भ्रान्ता आसन्नितिशेषः ॥ १६ ॥ एवमुक्त इति ॥ १ ॥ २ ॥ क्षत्रबन्धो इति । क्षत्रबन्धो क्षत्रियाधम ! क्षत्रिय पांसनेत्यतः परमब्रवीदित्यनुकृप्यते ।। ३-१६ ।।
For Private And Personal Use Only
टी.बा.की.
म० ५६
| ।।१५६॥