________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समुदीरिते प्रयुक्ते ॥ १७ ॥ ब्राह्मेण तेजसा ब्रह्मविद्याभ्यासजनिततेजसा । उपबृंहितेन ब्रह्मदण्डेनेत्यर्थः । अत्र ग्रासाकियायां न दण्डस्यान्वयः । पुत्रे गर्दभी भारं वहतीतिवत् । अतो न वक्ष्यमाणेन विरोधः ॥ १८ ॥ त्रैलोक्यस्य मोहनं भयान्मूच्छजिनकम् । रौद्रं स्मरणेऽपि भयङ्करम् । सुदारुणं दुर्द
त्रैलोक्यमासीत् सन्त्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १७ ॥ तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।
सर्वे ब्रह्मदण्डेन राघव॥ १८ ॥ ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः । त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदा रुणम् ॥ १९ ॥ रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः । मरीच्य इव निप्पेतुरग्नेर्धूमाकुलाचिषः ॥ २० ॥ प्राज्वलद् ब्रह्मदण्डश्च वसिष्टस्य करोद्यतः । विधूम इव कालाग्निर्यमदण्ड इवापरः ॥ २१ ॥ ततोऽस्तुवन मुनिगणा वसिष्ठं जपतां वरम् । अमोघं ते बलं ब्रह्मन् तेजो धारय तेजसा ॥ २२ ॥ निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः । प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ २३ ॥ एवमुक्तो महातेजाः शमं चक्रे महातपाः ॥ २४ ॥ विश्वा मित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत् ॥ २५ ॥ धिग्बलं क्षत्रियवलं ब्रह्मतेजोवलं बलम् । एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ २६ ॥
Acharya Shri Kalassagarsuri Gyanmandir
म् ॥ १९ ॥ एतदेवाह - रोमेति । अग्रेरिव मरीच्यो विस्फुलिङ्गा निष्पेतुरिति योजना ॥ २० ॥ दण्डच प्राज्वलत्, पूर्वास्त्रयासेनेतिशेषः ॥ २१ ॥ तेजः ब्रह्मास्त्रतेजः । तेजसा महिना । धारय उपशमय ॥ २२ ॥ २३ ॥ शमं कोपशान्तिम् ॥ २४ ॥ निकृतः अपकृतः । तिरस्कृत इति यावत् ॥२५॥ धिगिति । क्षत्रियबलं बलं धिक् निन्द्यं बलमित्यर्थः । " धिगुपर्यादिषु " इतिद्वितीया । त्रह्मतेजसः ब्राह्मण्यरूपतेजसः बलं बलम्, तदेव प्रशस्तमिति त्रैलोक्यमिति । समुदीरिते प्रयुक्ते ॥ १७-१९ ॥ रोमकूपेष्विति । अग्रेरिव वसिष्ठस्य रोमकूपेषु रोमकूपेभ्यो मरीच्यो ज्वालाः निप्पेतुः निश्चक्रमुः ॥ २० ॥ २१ ॥ तत इति । तेजो धारय । तेजसेति । तेजो ब्रह्माखतेजः, तेजसा स्वमहिम्ना धारय उपशमय ॥ २२-२४ ॥ विश्वामित्र इति । विनिकृतः परिभूतः ||२५|| धिग्बलमिति
२३
For Private And Personal Use Only