________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रानी दर्पपूर्वोऽभदित्यर्थः॥१९॥२०॥येरस्त्रैः। अत्रतेजसास्वतेजसा ॥२३॥ उदीयमाणं प्रयुज्यमानम् ॥२२॥भयात् भयदादखातानानादिग्भ्यः इति । त्ययेन द्वितीयार्थे चतुर्थी । नानादिग्भ्यः स्वस्वस्थानेभ्य इति वा । आश्रमपदं वनम् । शून्यं निस्तरुगुल्मम् । इरिणम् ऊपरम्॥२३॥२४॥ वसिष्ठे रक्षके विवर्द्धमानो वीर्येण समुद् इव पर्वणि । हतमेव तदा मेने वसिष्ठमृषिसत्तमम् ॥ २० ॥ ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः । यैस्तत्तपोवनं सर्व निर्दग्धं चात्रतेजसा ॥ २१ ॥ उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः। दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः॥२२॥ वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः। विद्रवन्ति भयाद्रीता नानादिग्भ्यः सहस्रशः ॥२३॥ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः। मुहूतमिव निःशब्दमासी दिरिणसन्निभम् ॥ २४ ॥ वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः । नाशयाम्यद्य गाधेयं नीहारमिव भास्करः॥२५॥ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः। विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६॥ आश्रमं चिरसंवृद्धं यदिनाशितवानसि । दुराचारोऽसि तन्मूढ तस्मात्त्वं न भविष्यसि ॥ २७ ॥ इत्युक्त्वा परमाद्धो दण्डमुद्यम्य
सत्वरः । विधूममिव कालानिं यमदण्डमिवापरम् ॥२८॥ इत्यार्षे श्रीरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥५५॥ विद्यमाने कुतो विद्रवन्तीत्यवाद-पदत इति। भावलक्षणे षष्ठी अनादरे वा । गाधेयं नाशयामिमा भैरिति वदतो वसिष्ठस्य वचनमनादृत्य विदवन्तीति पूर्वेणान्वयः ॥२५॥ एवमित्यादित्रयः। उक्त्वा स्वानिति शेषः ॥२६॥ न भविष्यसि नशिष्यसीति यावत् । उद्यम्यतस्थाविति शेषः ॥२७॥२८॥ इति श्रीगोविन्दराजविर० श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः॥५५॥ पूर्वमेव दर्पयुक्तः तदानी दर्पपूर्णोऽभवत् ॥ १९ ॥ २० ॥ तत इति । यैरबैरवतेजसा स्वकीयतेजसा च निर्दग्धं तानि मुमोचेत्यन्वयः ॥ २१॥ उदीर्यमाणं प्रयुज्य मानम् ॥ २२ ॥ वसिष्ठस्पेति । भयागयजनकाखात, नानादिग्भ्यः नानादिशा, व्यत्ययेन द्वितीयार्थे चतुर्थी । इरिणसंनिभम् ऊपरस्थानसंनिभम् , निस्तम्बगुल्म वदित्यर्थः ॥२३॥२॥ वदतो वसिष्ठस्पेति भावलक्षणे षष्ठी ॥२५-२८ ॥ इति श्रीमहेश्वरतीर्ष० श्रीरामायणतत्त्वबालकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥५५॥
For Private And Personal Use Only