________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सा.रा.भ. ॥१५॥
टी.वा.का. स. ५५
निवेगः युद्धप्रवृत्तिरहितः । उरग इव निःशक्तिरिति शेषः। उपरक्तः राहुग्रस्तः ॥ ९॥निर्वेदं दुःखम् ॥ १० ॥ स इत्यादिचत्वारः। एकमवशिष्टमिति शेषः । राज्याय राज्यं कर्तुम् । पृथिवीं क्षत्रधर्मेण पालयेत्यन्वयः ॥११॥१२॥ दर्शयामास आत्मानमिति शेषः॥१३॥१४॥ एवमित्यादिचत्वारः॥१५॥
दृष्ट्वा विनाशितान पुत्रान् बलं च सुमहायशाः। सवीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा ॥८॥ समुद्र इव निर्वेगो भग्नदंष्ट्र इवोरगः । उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः॥९॥ हतपुत्रबलो दीनो लूनपक्ष इव द्विजः । हत दप्पो हतोत्साहो निर्वेदं समपद्यत ॥ १० ॥ सपुत्रमेक राज्याय पालयेति नियुज्य च । पृथिवीं क्षत्रधर्मेण वन मेवान्वपद्यत ॥ ११ ॥ स गत्वा हिमवत्पार्श्व किन्नरोरगसेवितम् । महादेवप्रसादार्थ तपस्तेपे महातपाः ॥ १२॥ केनचित्त्वथ कालेन देवेशो वृषभध्वजः।दर्शयामास वरदो विश्वामित्रं महाबलम् ॥ १३ ॥ किमर्थं तप्यसे राजन ब्रूहि यत्ते विवक्षितम् । वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम् ॥ १४॥ एवमुक्तस्तु देवेन विश्वामित्रो महातपाः। प्रणिपत्य महादेवमिदं वचनमब्रवीत् ॥ १५॥ यदि तुष्टो महादेव धनुर्वेदो ममानघ । साङ्गोपाङ्गोप निषदः सरहस्यः प्रदीयताम् ॥१६॥ यानि देवेषु चाखाणि दानवेषु महर्षिषु। गन्धर्वयक्षरक्षस्सु प्रतिभान्तु ममानघ। तव प्रसादाद्भवतु देवदेव ममेप्सितम् ॥ १७॥ एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥१८॥प्राप्य चास्त्राणि
राजर्षिविश्वामित्रो महाबलः । दर्पण महतायुक्तो दर्पपूर्णोऽभवत्तदा ॥ १९॥ साङ्गोपाङ्गोपनिषद इत्यकारान्तत्वमार्षम् । अङ्गं सन्निपत्योपकारम् । उपाङ्गं आरादुपकारकम् । उपनिषत् रहस्यमन्त्रः । सरहस्यः उपदेशगम्यार्य। सहितः। प्रतिभान्तु तानीति शेषः। ममेप्सितं अन्यदपीति शेषः॥१६-१८॥ प्राप्येत्यादिसप्त। दर्पपूर्ण इति क्षत्रियत्वादिदर्पयुक्तः। विशेषास्त्रलाभा। अल्पप्रायश्चित्तम्, आततायित्वाच्चेति भावः ॥६-८॥ समुद्र इति । उपरक्तः राहुप्रस्तः॥९॥ हतेति । निर्वेदं चतुरङ्गाबले निष्फलत्वबुद्धिम् ॥१०॥ सपुत्रमिति। एकमव । शिष्टम् । क्षत्रधर्मेण पृथिवीं पालयेति, अन्यथा अहमिव भविष्यतीत्याशयः । राज्याय राज्यं कर्तुं नियुज्य ॥११॥१२॥ केनचिदिति। दर्शयामास, आत्मानमिति शेषः १३-१५॥ यदिति । अङ्गं करणम् । उपाङ्गं तदनुग्राहकम् । उपनिषत् वेदान्तः । रहस्यमुपदेशगम्यार्थः । समासान्तः ऋषिप्रयोगतो वेदितव्यः॥१६-१८॥ प्राप्योति।
१५५॥
For Private And Personal Use Only