________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पट्टिशः असिविशेषः ॥२२॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥५४॥ अप पुनर्दिव्यास्त्रलाभपूर्व विश्वामित्रेण वसिष्ठाश्रमसंरोधः पञ्चपञ्चाशे ततस्तानित्यादि । हे कामधुक ! योगतः योगमहिना,तिरश्चोऽपि ब्रह्मप्रसादाद्योग दीर्घासिपट्टिशधरैहेमवर्णाम्बरावृतैः । निर्दग्धंतद्रलं सर्व प्रदीप्तैरिव पावकैः ॥२२॥ ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह । तैस्तैर्यवनकाम्भोजाः पप्लवाश्चाकुलीकृताः ॥२३॥ इत्या बालकाण्डे चतुःपञ्चाशः सर्गः ॥५४ ॥ ततस्तानाकुलान दृष्ट्वा विश्वामित्रास्त्रमोहितान् । वसिष्ठश्चोदयामास कामधुक्सृज योगतः ॥ १॥ तस्या हुम्भा रवाज्जाताः काम्भोजा रविसन्निभाः। ऊधसस्त्वथ सजाताः पप्लवाः शलपाणयः ॥२॥ योनिदेशाच्च यवनाशक देशाच्छकास्तथा । रोमकूपेषु च म्लेच्छा हारीतास्सकिरातकाः ॥३॥ तैस्तैर्निषूदितं सर्व विश्वामित्रस्य तत्क्ष णात् । सपदातिगजं साश्वं सरथं रघुनन्दन ॥ ४॥ दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना । विश्वामित्रसुतानां तु शतं नानाविधायुधम् । अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम् ॥५॥ हुङ्कारेणैव तान सर्वान् ददाह भगवा
नृषिः ॥६॥ ते साश्वरथपादाता वसिष्टेन महात्मना । भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥७॥ शक्तिरस्तीति ज्ञेयम्॥३॥तस्या इत्यादि चित्वारः । ऊधसः स्तनात् ॥२॥हारीताः किरातजातिविशेषाः ॥३॥४॥ दृष्ट्वेत्यादिषद । वसिष्ठमभ्यधावत् तस्य सर्वविनाशमूलत्वात् इति भावः । जपतां वरम् इति हुङ्कारेण निरासे हेतुः॥५॥६॥ मुहूर्तेनति मासेनानुवाकोऽधीतइतिवदुपसर्गे तृतीया ॥ ७॥८॥ गवामनुकरणशब्दास्तेरुत्सृष्टाः निर्मिताः। पप्लवशकयवनादिशब्दाः म्लेच्छजातिविशेषवचनाः॥१८-२३॥ इति श्रीमहेश्वरतीर्थविरचितायो बालकाण्डव्याख्यायां चतुःपञ्चाशः सर्गः ॥ ५४॥ तत इति । आकुलान् पलायमानान् । हे कामधुक ! योगतः योगमहिम्ना ॥ १-३॥ विश्वामित्रस्य सर्वम् तत्सैन्यम् ॥ ४॥ विश्वा| मित्रसुताना शतम् ऋषिरेव धेनोर्बलमतोऽयमेव नाशनीय इत्याशयेन वसिष्ठमभ्यधावत् ॥५॥ हुङ्कारेण तपोबलसंभृतेन, क्षत्रियत्वेपि पृथिवीपतित्वाभावात्तद्वधे
+ अनेन व्यायानेन लोकचतुष्टयसकावः प्रतीयते, उपलभ्यन्ते तु त्रय एष भोकाः । अन्योऽपि गवेषणीयः ।
For Private And Personal Use Only