________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
॥१५४॥
वा. रा. भू. राजा तपोबलेन न दण्ड्य इत्यर्थः ॥ १० ॥ इयमित्यादि पञ्च । सवाजिरथसङ्कुला वाजिसद्दितरथैस्सङ्कुला । तुभ्यं तव । स्वया त्वत्तः । त्वद्ब्रह्मबलेन त्वन्मन्त्रबलेन सम्भृतां संवर्द्धितप्रभावाम् ॥ ११-१५ ॥ इत्युक्त इत्याद्यष्टौ । आरुजति हिनस्तीत्यारुजम् ॥ १६ ॥ १७ ॥ बलं सैन्यम् । इयमक्षौहिणी पूर्णा सवाजिरथसङ्कुला । हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ ११ ॥ एवमुक्ता वसिष्ठेन प्रत्यु वाच विनीतवत् । वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १२ ॥ न बलं क्षत्रियस्याद्दुर्ब्राह्मणो बलवत्तरः । ब्रह्मन् ब्रह्मवलं दिव्यं क्षत्रात बलवत्तरम् ॥ १३ ॥ अप्रमेयबलं तुभ्यं न त्वया वलवत्तरः । विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥ १४ ॥ नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसम्भृताम्। तस्य दर्पबलं यत्तन्नाशयामि दुरात्मनः ॥ १५ ॥ इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः । सृजस्वेति तदोवाच बलं परबलारुजम् ॥ १६ ॥ तस्य तद्वचनं श्रुत्वा सुरभिः सासृजत्तदा ॥ १७ ॥ तस्या हुम्भारवोत्सृष्टाः पप्लवाः शतशो नृप । नाशयन्ति बलं सर्व विश्वामित्रस्य पश्यतः ॥ १८॥ बलं भग्नं ततो दृष्ट्वा रथेनाक्रम्य कौशिकः । स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः । पप्लवान् नाशयामास शस्त्रैरुच्चावचैरपि ॥ १९ ॥ विश्वामित्रार्दितान दृष्ट्वा पप्लवान् शतशस्तदा। भूय एवासृजत्कोपाच्छकान् यवनमिश्रितान् ॥ २० ॥ तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः । प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसन्निभैः॥२१॥ हुम्भारवः पशूनां हुम्भाशब्दः । उत्सृष्टाः निर्मिताः पप्लवशकयवनादिशब्दाः म्लेच्छजातिविशेषवचनाः । पश्यत इत्यनादरे पष्ठी ॥ १८ ॥ विस्फा रितं विवृतम् ॥ १९ ॥ अर्दितान् हिंसितान् ॥ २० ॥ हेमकि अल्कसन्निभैः हेमशब्दश्चम्पकपरः, तस्य कनकाह्वयत्वात् । तत्केसरतुल्यैरित्यर्थः ॥ २३ ॥ किष्किन्धाकाण्डे - " दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः ॥ तान हिंस्थान चाक्रोशेन्नाक्षेपेनामियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले ॥” इति ॥१०॥ इयमिति । हस्तिध्वजाः हस्तिषु स्थिताःध्वजाः तैः समाकीर्णा ॥ ११ ॥ एवमिति । विनीतवत्- विनीता ॥ १२ ॥ नेति । क्षत्रियस्य बलं न बलम् अल्पबलमाहुः । ब्रह्मन्नित्यादि । ब्रह्मबलं क्षत्रात् क्षत्रियबलात, बलवत्तरम् अधिकतरम् ||१३|| अप्रमेयमिति । तुभ्यं तव बलम् । विश्वामित्रो महावीयपि, त्वया त्वत्तः न बलवान् ॥ १४ ॥ नियुङ्क्ष्वेति । ब्रह्मबलेन संभृताम् वर्धितप्रभावाम् ॥ १५-१७ ॥ तस्या इति । हुम्भारवोत्सृष्टाः हुम्भारवाः
॥ १५४॥
For Private And Personal Use Only
टी.बा.कां.
स० ५४