________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
AL
अथ बलात्कारकुपितवसिष्ठप्रहितकामधेनोर्बलसृष्टिश्चतुःपञ्चाशे-कामधेनुमित्यादिदशकम् ॥ १॥२॥हियेयम्, कर्मणि संप्रने लिङ्। कथमपि हियेयमि त्यर्थः। भृशदुःखिता भृशं दुःखिता। वृत्तिविषये मकारलोपो भृशमादिमान्ताव्ययस्येष्यते ॥३-५॥ क्रोशन्ती आर्तस्वरं कुर्वन्ती ॥६॥ राजभृताः राज।
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः। तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ १॥ नीयमाना तु शबला राम राज्ञा महात्मना । दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ २॥ परित्यक्ता वसिष्ठेन किमहं सुमहात्मना। याऽहं राजभटैदीना हियेयंभृशदुःखिता॥३॥ किंमयाऽपकृतं तस्य महर्षेभावितात्मनः।यन्मामना गसं भक्तामिष्टां त्यजति धार्मिकः ॥४॥निर्द्रय तांस्तदा भृत्यान शतशः शत्रुमूदन । जगामानिलवेगेन पाद मूलं महात्मनः॥५॥ शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् । वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥६॥ भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत। यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥७॥ एवं मुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्। शोकसन्तप्तहृदयां स्वसारमिव दुःखिताम् ॥ ८॥न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया। एष त्वां नयते राजा बलान्मत्तो महाबलः ॥९॥ न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥१०॥ भटाः। त्वत्सकाशतः त्वत्समीपतः ॥७॥८॥ मत्तः मत्सकाशात् ॥९॥ मह्यं मम । तर्हि तपोबलेन किमिति न दण्ज्यते ? तबाह राजा त्वद्य विशेषत इति। कामधेनुमिति । न त्यजते नात्यजत् । अन्यकर्षत बलात्कारेण नीतवान् ॥ १॥ परित्यक्तेति । राजभटेः राजभृत्यैः। द्वियेयम् अपहिये ॥२॥३॥ किमिति । भक्ताम् अनुरक्ताम् ॥ ४॥५॥ शबलेति । क्रोशन्ती आर्तस्वरं कुर्वन्ती । अभितः अभिमुखम् ॥६-८॥ नेति । मत्तः मन्सकाशात् बलानयत इति संबन्धः॥९॥ नहीत्यादि । मह्यं मम तुल्यं बलं न, तर्हि तपोबलेन किमिति न दण्यते ! तबाह-राजा त्वद्य विशेषत इति । राजा तपोवलेन न दण्ड्य इति भावः । तदुक्तं
१ धार्मिकः । इति सा चिन्तयित्वा तु विनिवस्य पुनः पुनः । इत्यधिकः पाठः । २ वसिष्ठस्याभितः । इति तीर्घायपाठः ।
For Private And Personal Use Only