________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
टी.बा.का.
॥२५॥
पुनरुक्तिः। किङ्किणीकैविभूषितान् ॥ १९॥ हयानामिति । देशाः काम्भोजबाहीकादयः । कुलजानां गन्धर्वकुलजातानाम् “गन्धर्वकुलजातस्त्वम्" w a li इति पुराणवचनात् ॥ २० ॥ नानेति । कलावणेः विभक्तानामन्योन्यविलक्षणानाम् ॥ २१ ॥ यावदिति । यावत्प्रमाणमिच्छसि तावत्प्रमाणं सर्व ददामि ।। २२॥ एवमिति । हे राजन् ! शबला न दास्यामीत्यन्वयः ॥ २३ ॥ एतदित्यादित्रयम् । अदोमूलाः एतन्मूलाः । प्रलापेन, भवत इति शेषः।
हयानां देशजातानां कुलजानां महौजसाम् । सहस्रमेकं दश च ददामि तव सुव्रत ॥२०॥ नानावर्णविभक्तानां वयःस्थानां तथैव च। ददाम्येकां गवां कोटिं शबला दीयतां मम ॥२१॥ यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम। तावद्ददामि तत्सर्व शबला दीयतां मम ॥ २२॥ एवमुक्तस्तु भगवान विश्वामित्रेण धीमता । न दास्यामीति शबलां प्राह राजन् कथंचन ॥२३॥ एतदेव हि मे रत्नमेतदेव हि मे धनम् । एतदेव हि सर्वस्वमेतदेव हिजीवितम् ॥ २४॥ दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः। एतदेव हि मे राजन विविधाश्च क्रियास्तथा ॥२५॥ अदोमूलाः कियाः सर्वा मम राजन्न संशयः। बहुना किं प्रलापेन न दास्ये कामदोहिनीम् ॥२६॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३॥ कामान् दोग्धुं शीलमस्त्यस्या इति कामदोहिनीम् । " सुप्यजातौ णिनिस्ताच्छील्ये" इति णिनिः ॥२४-२६ ॥ इति श्रीगोविन्दराजविर श्रीरामा यणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३॥ अश्वानां सङ्ग्यानियमाथै चतुर्युजामितिविशेषणम् । किङ्किणीकविभूषितानिति षष्ठयर्थे द्वितीया ॥१९॥ हयानामिति । देशजातानाम् देशः काम्भोजबाहीकादिः। कुलजातानाम् गन्धर्वकुलजातानाम् “गन्धर्वकुलजातस्त्वम्" इति पुराणवचनात् ॥२०-२२॥ एवमिति । हे राजन् ! शबला न दास्यामीति प्राहेत्यन्वयः ॥२३॥ एतत् शबलारूपं वस्तु ॥ २४ ॥ आप्तदक्षिणा इत्यनेन हव्यादिवदक्षिणाप्येतदधीनेति सूचितम् ॥ २५ ॥ क्रियास्तथेत्यस्यैव विवरणम्-अदोमूला इति । सर्वथा दानाभावे हेतुगर्भविशेषणम् । कामदोहिनीम् इच्छाविषयदोहनशीलाम् । काव्यलिङ्गमलङ्कारः॥ २६ ॥ इति श्रीमहे श्रीरामा० बालकाण्ड त्रिपञ्चाशः सर्गः ॥५३॥
।
For Private And Personal Use Only