________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Mममा शबला शाश्वती नित्यसम्बन्धा॥११-१३॥ हव्यं देवार्थम् । कव्यं पित्रर्थम् । प्राणयात्रा प्राणाग्निहोत्रम् । अग्निहोत्रं सायं प्रातःकर्तव्यो होमविशेषः।। Mबलिः भूतबलिः। होमा दर्शपूर्णमासादिन एतत्सर्वम् अस्या आयत्तम् एतदधीनम्॥१४॥स्वाहाकारः स्वाहेति मन्त्रः, वषट्कारो वषडिति मन्त्रः। विविधाः विद्याः वेदायाश्च अस्यामायत्ताः। एतत्पयादिप्राशनेन चित्तशुद्धः प्राणतृप्तदेहबलादेश्च साध्यत्वात्तदेकमूलत्वम् । अवार्थे न संशयः ॥१५॥ सत्येन ।।
न परित्यागमहेयं मत्सकाशादरिन्दम । शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ॥ १३ ॥ अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च । आयत्तमग्निहोत्रं च बलिहोमस्तथैव च ॥ १४ ॥ स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा । आयत्तमत्र राजर्षे सर्वमेतन्न संशयः॥१५॥ सर्वस्वमेतत्सत्येन मम तुष्टिकरी सदा । कारणैर्बहुभी राजन्न दास्ये शबलां तव ॥१६॥ वसिष्टेनैमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः। संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ॥ १७॥ हैरण्यकक्ष्याग्रैवेयान सुवर्णाङ्कुशभूषितान् । ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ॥ १८॥ हैरण्यानां स्थानांते श्वेताश्वानां चतुर्युजाम् । ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान् ॥ १९॥ बदामीत्यर्थः । कारणेसक्तैरनुक्तैश्च ॥१६॥ वसिष्ठेनेति । संरब्धतरम् अत्यन्ताभिनिवेशयुक्तम् ॥१७॥ हैरण्येति । हैरण्यानि हिरण्मयानि कक्ष्या अवेयाणि येषां ते। कक्ष्या मध्यबन्धनार्था रज्जुः । “कक्ष्या प्रकोष्ठे हादेः काश्यां मध्येभबन्धने" इत्यमरः । अवेयाणि ग्रीवाबन्धनरजवः । “ग्रीवाभ्योऽण च"|| इति चाट्टम् । सहस्राणीत्यस्य पुंल्लिङ्गविशेषणमार्षम् ॥ १८॥हेरण्यानामिति । चतुर्युजां चतुर्भिरश्वैर्युक्तानाम् । गमकत्वात्समासः । सङ्ग्यानियमपरत्वान अस्यामित्यादि ।हव्यं देवार्थम् । कव्यं पित्रर्थम्। प्राणयात्रा प्राणधृतिः । अग्निहोत्रं प्रतिदिनं सायंप्रातः कर्तव्यो होमविशेषः। बलिभूतवलिः।होमो दर्शपूर्णमासादिः, एतत्सर्वमस्यामायत्तमेतदधीनम् ॥१४॥ स्वाहाकार इत्यादि । स्वाहाकारः स्वाहेति मन्त्रः । वषटकारः वपडिति मंत्रः। विविधा विद्या वेदत्रयी। दधिपयःप्रभृतीनो हत्य कन्यादीनां तत्साध्यकर्मणां तद्विनियुक्तमंत्राणां च संभवादेतदधीनत्वम् । अत्रार्थे न संशयः सत्येन वदामीतिशेषः । बहुभिरुक्तैरनुक्तेश्च ॥ १५॥१६॥ वसिष्ठेनेति । संरब्धतरम् अत्यन्ताभिनिवेशयुक्तम् ॥ १७ ॥ हैरण्यकक्ष्येत्यादि । सहस्रशब्दस्य नित्यनपुंसकत्वान्न सामानाधिकरण्यविरोध: । हैरण्याः हिरण्मयाः कक्ष्याः मध्यबन्धनार्था रज्जुविशेषाः । अवेयाः प्रीवाबन्धनरजवश्व येषां ते तथोक्ताः । कुन्नराणां कुञ्जरान ॥ १८॥ हैरण्यानामिति । चतुयुंजाम-चतुर्भिरश्वयुक्तानाम् ।
For Private And Personal Use Only