Book Title: Valmiki Ramayanam Part 01
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पञ्चकं व्याख्यातम् ॥ १७-२१॥ तस्येति । तो दशरथस्य पुत्राविति न्यवेदयदित्यर्थः ॥ २२ ॥ सिद्धेत्यादिवयः । अव्ययं रक्ष सइखावृते मार्गे निर्भयागमनम् । जिज्ञासां सारासारपरीक्षाम् ॥२३-२५॥ इति श्रीगोविन्दराज श्रीरामा मणिमश्रीराख्याने बालकाण्डव्याख्याने पञ्चाशः सर्गः॥५०॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ । कथं पझ्यामिह प्राप्तौ किमर्थ कस्य वा मुने ॥ १९ ॥वरायुधधरौ वीरौ कस्य पुत्रौ महामुने। भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ॥२०॥ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः। काकपक्षधरी वीरौ श्रोतुमिच्छामि तत्त्वतः ॥२१॥ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः । न्यवेदयन्महा त्मानौ पुत्रौ दशरथस्य तौ ॥ २२ ॥ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा । तच्चागमनमव्यग्रं विशालायाश्च दर्शनम् ॥२३॥ अहल्यादर्शनं चैव गौतमेन समागमम् । महाधनुषि जिज्ञासां कर्तुमागमनं तथा ॥२४॥ एतत्सर्व महातेजा जनकाय महात्मने । निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मी कीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥५०॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः । हृष्टरोमा महातेजाः शतानन्दो महातपाः॥१॥
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः । रामसन्दर्शनादेव परं विस्मयमागतः ॥२॥ अथाचार्यवेभवस्य शेयत्वाभिप्रायेण विश्वामित्रचरित्रं प्रस्तौति-तस्य तद्वचनमित्यादिभिः पञ्चदशभिः सर्गः । तस्येत्यादिदौ । हृष्टरोमा सातरोमाञ्चः । विस्मयमागतः, अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्तोऽभूदित्यर्थः ॥ १॥२॥ कथमिति, किमर्थं कस्मै प्रयोजनाय, कस्य वा पुरुषस्य कार्य साधयितुम् ॥ १९ ॥ भूषयन्ताविति । इङ्गितम्-सूक्ष्माङ्गब्यापारः। चेष्टितं हासादिस्थूलाङ्गब्यापारः In २०-२२ ॥ तचेति । अव्यग्रं रक्षस्समाक्रान्तेऽपि मार्गे भयरहितमागमनम् । महाधनुषि जिज्ञासा सारपरीक्षाम् ॥ २३-२५ ॥ इति श्रीमहेश्वरतीर्थविरचितायो । श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चाशः सर्गः ॥५०॥ तस्यति । हृष्टरोमेत्यतिमानुषश्रीरामदर्शनेनेत्यर्थः ॥ १॥२॥
For Private And Personal Use Only

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468