SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Archana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राम स्थितामपित। रामसन्निधानमात्रेणादल्या मुक्तशापा स्वरूप प्राप्तत्याह-ददर्श चेति, साईश्लोकद्वयम् । तपसा वाय्वाहारवादितपसा । योतितप्रभा अतिशयित प्रभाम् । अतएव लोकर्मानुषैः सुरासुरैरपि समागम्य समीपमागत्य दुर्निरीक्ष्यां दिव्यां अतिमानुषरूपां मायामयीमिव मायानिर्मितामिव स्थिताम् । वृक्ष । ददर्श च महाभागां तपसा द्योतितप्रभाम् । लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ १४॥ प्रयत्नानिर्मिता धात्रा दिव्यां मायामयीमिव । सतुषारावृतांसाभ्रां पूर्णचन्द्रप्रभामिव । मध्येऽम्भसो दुराधर्षा दीप्ता सूर्यप्रभामिव ॥ १५॥ सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह । त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् । शापस्यान्तमुपा गम्य तेषां दर्शनमागता ॥१६॥ लताकुसुमान्तर्वर्तित्वेन सतुषारावरणां सानां चन्द्रप्रभामिव स्थिताम् । आवृतशब्द आवरणार्थकः । भावे निष्ठा । स इति भिन्नं पदं वा । मध्य इति अकौर्यदुर्निरीक्ष्यत्वाभ्यां प्रतिबिम्बसूर्यप्रभातुल्याम् ॥ ११ ॥ १५ ॥ अदृश्या सा कथमिदानीं दृश्यासीदित्यवाह सार्धन-सा हीत्यादि ॥ १६ ॥ ददर्शेत्यादि सार्धश्लोकद्वयमेकान्वयम् । सतुषारावृतामित्यत्र स इति छेदः । स रामो महाभागः अहल्यां ददशेन्यन्वयः। अहल्यां विशिनष्टि-तपसेति । तपसा नपोमहिना । द्योतितप्रभा बहिरदृश्यत्वेऽपि अन्तरेव भासमानामित्यर्थः । सुरासुरैस्तदूपैः लोकेर्जनेः समागम्यापि दुनिरीक्ष्यां दिव्याम अमानुषलावण्यशालिनी मित्यर्थः । मायामयीमिव मायानिर्मितामिव, विस्मयकरीमित्यर्थः । किञ्च मध्य इति अम्भसः लक्षणया जलाधारस्य मेधस्येत्यर्थः । मध्ये स्थितामिति शेषः ।। दीप्तां सर्वप्रभामिव दुराधर्षा दुष्पापाम् । निविडजलधरसंभृतां सूर्यप्रभामिव द्रष्टुमशक्यामित्यर्थः ॥ १४ ॥ १५ ॥ सा अहल्या यावद्रामदर्शनं सावनिरीक्ष्यति पूर्वेणान्वयः। शापस्येति । शापस्यान्न, रामदर्शनादिति शेषः । तेषां विश्वामित्रादीनां दर्शनमागता प्राप्ता ॥ १६॥ मवविषयत्वात् सर्वस्या अपि मेषजातविश्लेषिताव्यवसंयोजन कृतमिति भावः । यदा इन्द्रस्य मेषबीजप्रदानकालानन्तरं श्राद्धकाले पितृदेवाः भागताः अफलान् ये बीजरहितान् मेघान् भुतते । मेघवीजस्य इन्द्रा चीनत्वात् । अफलान भुक्त्वा, तेषां तान् कर्मकतन् । कर्मणि धष्ठी । फलैः पूर्व सफलमेधकृतकर्मभिर्यानि फलानि भवन्ति तैः फलैः समपोजयन् । यहा तेषां कर्मकर्तृणां अनुष्ठानमिति शेषः । फलैः कर्मफलैः समयोजयनित्यर्थः ॥ १०॥१९॥ १ भिव । धूमेनापि परीताङ्गी दीप्तामग्निशिखामिव । इत्यधिकः पाठः । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy