________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बा.रा.भू. कव्यवाहनादीन् ॥ ५ ॥ अयमिति । अयमिदानीं यज्ञे युष्मभ्यं नियुज्यमानो मेषः । गृह्य गृहीत्वा ॥ ६ ॥ तद्दानेऽस्मतुष्टिवैकल्यं स्यादित्यत्राह- अफल इत्यर्द्धम् । प्रदास्यतीत्यनुगृहन्ति ॥ ७ ॥ दातृणामपि फलन्यूनता न भवत्वित्यनुगृह्णन्ति भवतामिति । दास्यन्ति अवृषणमितिशेषः ॥ ८ ॥ अग्रेरिति । अनिपुरःसराणामित्यर्थः । मेषस्य तदा यूपे नियुक्तस्य मेषस्य वृषणौ ||९|| तदेति । तदाप्रभृति वृषणदानात्प्रभृति । दत्तसजातीयत्वाद्वृषणौं विना मेषान्
॥१४६॥
अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः । मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छथ ॥ ६ ॥ अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ॥ ७ ॥ भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ॥ ८ ॥ अस्तु वचनं श्रुत्वा पितृदेवाः समागताः । उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ ९ ॥ तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः । अफलान् भुञ्जते मेषान फलैस्तेषामयोजयन् ॥ १० ॥ इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव । गौतमस्य प्रभावेन तपसश्च महात्मनः ॥ ११ ॥ तदागच्छ महातेज आश्रमं पुण्यकर्मणः । तारयैनां महाभागा महल्यां देवरूपिणीम् ॥ १२ ॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
भुञ्जते तेषां सवृषणानाम् । फलैः सवृषणमेपदानफलैरित्यर्थः । अयोजयन् दातृनितिशेषः ॥ १० ॥ इन्द्रस्त्विति । गौतमस्य तपसः प्रभावेन वृषण ! | हान्या मेषवृषणोऽभूदित्यर्थः ॥ ११ ॥ तदिति । तत् त्वदागमनावधित्वादहल्या शापस्येत्यर्थः ॥ १२ ॥ विश्वामित्रेति ॥ १३ ॥
वचनं श्रुत्वेति वक्ष्यमाणत्वात् ॥ ५ ॥ अयमिति । अयं मेषः पितृदेवतानां भवतां हविट्रेन कल्पितो मेषः ॥ ६ ॥ अफलस्त्विति । अफलो मेषः । भवतां परां तुष्टि प्रदास्यति । किञ्च भवतां हर्षणार्थम् अफलमेषपललमिति शेषः । दास्यन्तीति भवतां परां तुष्टिं दास्यन्तीति योजना ॥ ७-९ ॥ तदाप्रभृतीति । यतः पितृदेवाः समागताः सन्तः इन्द्रं प्रति । तेषां फलैः तेषां तस्य मेषस्य फलैः, फलाभ्यामयोजयन, तदाप्रभृति तस्मात्कारणात अफलान् मेषान् भुञ्जत इति योजना । तेषां फलैरिंति बहुवचनमेकवचनत्वे ॥ १० ॥ ११ ॥ तदिति। महातेजा हे राम ! एनां तारय ॥ १२ ॥ १३ ॥
निभावतदाप्रभृति इन्द्रवृषणसम्पत्यर्थं मेषाण्डकोशग्रहणकालमारन्य अफलान् मेषान् भुञ्जते, अवयवविशेषविहीनान् मेषान् हविष्वेन स्वीकुर्वन्ति, तथाविधास्ते फलैस्तेषामयोजयन् । तेषामिति द्वितीयार्थे षष्ठी निर्वृषणीकृतान् मेषान् स्वानुग्रहलयैस्तादृशैरवयवविशेषैः समयोजयन्नित्यर्थः । इन्द्रस्य वृषणसम्पन्यर्थं कस्यचिदेव मेघस्य अण्डकोशवियोजनेऽपि वायसादिषु उपनतरामनिग्रहस्येव तद्वियोजनस्य तजातीय
For Private And Personal Use Only
टी.वा.कां. स० ४९
॥ १४६॥