________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
प्रक्षिप्तमित्याहुः । तन्न, स्मरन्ती गौतमवचः इत्याद्युत्तरसर्गवचनविरोधात्॥३॥एवमिति साईश्लोकः। तपस्तेपे तच्छापकृतपापप्रायश्चित्तार्थम् ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्यानेऽष्टचत्वारिंशः सर्गः ॥४८॥ अनयोईयोः शापयोरेकः पूर्वमेव मुक्तः । अपरस्त्वया मोचनीय इत्याशयेनाह एकोनपञ्चाशे-अफल इत्यादि । अग्निपुरोधसः अग्निपुरोगमान् । वस्तवदनः वस्तशब्देन तत्कायें देन्य
एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम् । इममाश्रममुत्सृज्य सिद्धचारणसेविते। हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ ३४ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥ अफलस्तु ततः शको देवानग्निपुरोधसः। अब्रवीत् त्रस्तवदनः सर्षिसङ्घान सचारणान् ॥ १॥ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः । क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २॥ अफलोऽस्मि कृतस्तेन क्रोधात् साच निराकृता । शापमोक्षेण महता तपोऽस्यापहृतं मया ॥३॥ तस्मात्सुरवराः सर्वे सर्षिसङ्घाः सचारणाः । सुरसाह्यकरं
सर्वे सफलं कर्तुमर्हथ ॥४॥ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः । पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ॥५॥ मुच्यते ॥ १ ॥ कुर्वतेति । महात्मनः गौतमस्य तपसः अस्मत्पदच्यवनकारणस्य विघ्नं क्रोधमुत्पाद्य तस्य क्रोधजननमुखेन कुर्वता मया इदं गौतम तपोभङ्गरूपम् । सुरकार्य कृतं सर्वदेवपदच्यवनाई तपो गौतमेन कृतम्, तस्य तपोनाशकमहाक्रोधोत्पादनाय तद्भार्यया तु मया व्यभिचारः कृत इत्यर्थः । ॥२॥ अफल इति । तेन गौतमेन । सा अहल्या निराकृता शापमोक्षपूर्वकं त्यक्ता । शापमोक्षण मयि अहल्यायां च शापदानेन ॥३॥ तस्मादिति ।। हे सर्वे सुरवरा इति संबोधनम् । द्वितीयसर्वशब्दस्य सर्वे यूयमिति सम्बन्धः । साह्यं साहाय्यम्।सफलं, मामितिशेषः॥४॥शतक्रतोरिति । पितृदेवान अग्नि प्राप्स्यसीति भावः । तथा च पाने-सा ततस्तस्य रामस्य पादस्पर्शान्महात्मनः । अभूत्सुरूपा वनिता समाक्रान्ता महाशिला ॥" इति ॥ ३३॥ ३४ ॥ इति । श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः॥ ४८ ॥ अफल इति । अफल: अपगतवृषणः । अग्नि पुरोगमान् अग्निपुरस्सरान् ॥१॥ इन्द्रः सुरान् वश्चयति-कुर्वतेति । सुरकार्य गौतमतपोभङ्गरूपम् ॥२॥ अस्तु ततः किम् ? तत्राह-अफल इति । तेन गौतमेन अफल: अषणः कृतोऽस्मि, साच निराकृता शप्ता, तथापि कथं सुरकार्य कृतम, तबाह शापेति । शापमोचनेन तदीयतपोभङ्गार्थमेव मया अकार्य कृतमिति भावः ॥ ३ ॥ तस्मादिति । हे सर्वे सुरवराः सर्वे यूपमिति सर्वशब्दद्वयनिर्वाहः ॥ ४ ॥ पितृदेवाः कम्यवाहनादयः, तानुपेत्य हव्यवाहनाग्निमुखेनाहुः । अग्नेस्तु
For Private And Personal Use Only