________________
- रायचन्द्र जैनशास्त्रमाला -
[ अ० १, गा० ५८
यत्परतो विज्ञानं तत्तु परोक्षमिति भणितमर्थेषु । यदि केवलेन ज्ञातं भवति हि जीवेन प्रत्यक्षम् ॥ ५८ ॥ यत्तु खलु परद्रव्यभूतादन्तःकरणादिन्द्रियात्परोपदेशादुपलब्धेः संस्कारादालोकादेव निमित्ततामुपगतात् स्वविषयमुपगतस्यार्थस्य परिच्छेदनं तत् परतः प्रादुर्भवत्परोक्षमित्यालक्ष्यते । यत्पुनरन्तःकरणमिन्द्रियं परोपदेशमुपलब्धिसंस्कारमालोकादिकं वा समस्तमपि परद्रव्यमनपेक्ष्यात्मस्वभावमेवैकं कारकत्वेनोपादाय सर्वद्रव्यपर्यायजातमेकपद एवाभिव्याप्य प्रवर्तमानं परिच्छेदनं तत् केवलादेवात्मनः संभूतत्वात् प्रत्यक्षमित्यालक्ष्यते । इह हि सहजसौख्यसाधनीभूतमिदमेव महाप्रत्यक्षमभिप्रेतमिति ॥ ५८ ॥
अथैतदेव प्रत्यक्षं पारमार्थिकसौख्यत्वेनोपक्षिपति—
जादं सयं समत्तं णाणमणंतत्थवित्थडं विमलं । रहियं तु ओग्गहादिहिं सुहं ति एगंतियं भणियं ॥ ५९ ॥ यति - जं परदो विण्णाणं तं तु परोक्ख त्ति भणिदं यत्परतः सकाशाद्विज्ञानं परिज्ञानं भवति तत्पुनः परोक्षमिति भणितम् । केषु विषयेषु । अट्ठेसु ज्ञेयपदार्थेषु जदि केवलेण णादं हवदि हि यदि केवलेनासहायेन ज्ञातं भवति हि स्फुटम् । केन कर्तृभूतेन । जीवेण जीवेन तर्हि पञ्चखं प्रत्यक्षं भवतीति । अतो विस्तरः -- इन्द्रियमनः परोपदेशावलोकादिबहिरङ्गनिमित्तभूतात्तथैव च ज्ञानावरणीय क्षयोपशमजनितार्थग्रहणशक्तिरूपाया उपलब्धेरर्थावधारण रूपसंस्काराच्चान्तरङ्गकारणभूतात्सकाशादुत्पद्यते यद्विज्ञानं तत्पराधीनत्वात्परोक्षमित्युच्यते । यदि पुनः पूर्वोक्तसमस्तपरद्रव्यमनपेक्ष्य केवलाच्छुद्धबुद्धैकस्वभावात्परमात्मनः सकाशात्समुत्पद्यते ततोऽक्षनामानमात्मानं प्रतीत्योत्पद्यमानत्वात्प्रत्यक्षं भवतीति सूत्राभिप्रायः ॥ ५८ ॥ एवं हेयभूतेन्द्रिय
७६
क्षका लक्षण दिखाते हैं - [ यत् ] जो [ परतः ] परकी सहायतासे [ अर्थेषु ] पदार्थो में [विज्ञानं ] विशेष ज्ञान उत्पन्न होवे, [ तत्] वह [ परोक्षं ] परोक्ष है, [ इति भणितं ] ऐसा कहा है । [तु] परंतु [ यदि ] जो [ केवलेन ] परकी सहायता विना अपने आप ही [ जीवेन ] आत्माकर [हि ] निश्चयसे [ज्ञातं ] जाना जावे, [तदा] तो वह [ प्रत्यक्षं ] प्रत्यक्षज्ञान [ भवति ] है । भावार्थजो ज्ञान मनसे, पाँच इंद्रियोंसे, परोपदेशसे, क्षयोपशमसे, पूर्वके अभ्याससे और सूर्यादिकके प्रकाशसे उत्पन्न होता है, उसे परोक्षज्ञान कहते हैं, क्योंकि यह ज्ञान इन्द्रियादिक परद्रव्य स्वरूप निमित्तोंसे उत्पन्न होता है, और परजनित होनेसे पराधीन है । परंतु जो ज्ञान, मन इन्द्रियादिक परद्रव्योंकी सहायताके विना केवल आत्माकी ही सहायतासे उत्पन्न होता है, तथा एक ही समय में सव द्रव्य पर्यायोंको जानता है, उसे प्रत्यक्ष-ज्ञान कहते हैं, क्योंकि वह केवल आत्माके आधीन है, यही महा प्रत्यक्षज्ञान आत्मीक - स्वाभाविक सुखका साधन माना है ॥ ५८ ॥ आगे यही अतीन्द्रिय प्रत्यक्षज्ञान निश्व