________________
७५. ]
प्रवचनसारः
द्विप्रदेशादयः स्कन्धाः सूक्ष्मा वा बादराः ससंस्थानाः । पृथिवीजलतेजोवायवः स्वकपरिणामैर्जायन्ते ॥ ७५ ॥
FOX
२२९
एवममी समुपजायमाना द्विप्रदेशादयः स्कन्धा विशिष्टावगाहनशक्तिवशादुपात्तसौक्ष्म्यस्थौल्यविशेषा विशिष्टाकारधारणशक्तिवशाद्गृहीतविचित्रसंस्थानाः सन्तो यथास्वं स्पर्शादिचतुष्कस्याविर्भाव तिरोभावस्वशक्तिवशमासाद्य पृथिव्यप्तेजोवायवः स्वपरिणामैरेव जायन्ते । अतोऽवधार्यते द्व्यणुकाद्यनन्तानन्तपुद्गलानां न पिण्डकर्ता पुरुषोऽस्ति ॥ ७५ ॥
प्रथमगाथा । स्निग्धरूक्षगुणविवरणेन द्वितीया । स्निग्धरूक्षगुणाभ्यां यधिकत्वे सति बन्धकथनेन तृतीया । तस्यैव दृढीकरणेन चतुर्थी चेति परमाणूनां परस्परबन्धव्याख्यानमुख्यत्वेन प्रथमस्थले गाथाचतुष्टयं गतम् । अथात्मा द्व्यणुकादिपुद्गलस्कन्धानां कर्ता न भवतीत्युपदिशति - जायन्ते उत्पद्यन्ते । के कर्तारः । दुपदेसादी खंदा द्विप्रदेशाद्यनन्तांणुपर्यन्ताः स्कन्धा जायन्ते । पुढविजलतेउवाऊ पृथ्वीजलतेजोवायवः । कथंभूताः सन्तः । सुहुमा वा बादरा सूक्ष्मा बादराः । पुनरपि किंविशिष्टाः सन्तः । ससंठाणा यथासंभवं वृत्तचतुरस्रादिखकीय स्वकीयसंस्थानाकारयुक्ताः । कैः कृत्वा जायन्ते । सगपरिणामेहिं स्वकीयखकीय स्निग्धरूक्षपरिणामैरिति । अथ विस्तरः - जीवा हि तावद्वस्तुतष्टोत्कीर्णज्ञायकैकरूपेण शुद्धबुद्वैकखभावा एव पश्चाद्व्यवहारेणानादिकर्मबन्धोपाधिवशेन शुद्धात्मस्वभावमलभमानाः सन्तः पृथिव्यप्तेजोवातकायिकेषु समुत्पद्यन्ते, तथापि स्वकीयाभ्यन्तरसुखदुःखादिरूपपरिणते रेवाशुद्धोपादानकारणं भवन्ति। न च पृथिव्यादिकायाकारपरिणतेः । कस्मादिति चेत् । तत्र स्कन्धानामेवोपादानकारण
हैं - [ द्विप्रदेशादयः स्कन्धाः ] दो प्रदेशको आदि लेकर परमाणुओंके स्कंध अर्थात् दो परमाणुओंका स्कंध, तीन परमाणुओंका स्कंध, इत्यादि अनंत परमाणुओं के खंध पर्यत जो स्कंध हैं, वे सब [खकपरिणामैः ] अपने ही स्निग्ध रूक्ष गुणके परिणमनकी योग्यतासे [ जायन्ते ] उत्पन्न होते हैं, [वा ] अथवा [ सूक्ष्मा बांदराः ] सूक्ष्मजाति और स्थूलजातिके [पृथ्वीजलतेजोवायवः ] पृथिवीकाय, जलकाय, अग्निकाय, वायुका, ये भी स्निग्ध रूक्षभावके परिणमनसे पुद्गलात्मक स्कंध पर्यायरूप उत्पन्न होते हैं । [पुद्गलपर्याय [ससंस्थानाः] तिकोने, चौकोने, गोलाकार, इत्यादि अनेक आकार सहित होते हैं । भावार्थ - दो परमाणुओंके स्कंधसे लेकर अनंतानंत परमाणुस्कंध पर्यत नानाप्रकार आकारोंको धारण किये हुए सूक्ष्म स्थूलरूप जो पुद्गलपर्याय होते हैं, तथा स्पर्श, रस, गंध, वर्णकी मुख्यता वा गौणता लिये हुए पृथ्वी, जल, तेज, वायुरूप पिंड हैं, उन सब पर्यायोंका कर्ता पुद्गलद्रव्य जानना चाहिये । इससे यह सिद्धांत निकला, कि आत्मा (पुरुप) पुलपिंडका कर्ता नहीं है, पुद्गलद्रव्य में ही पिंड होने की स्निग्धरूक्ष शक्ति है, इसलिये