Book Title: Pravachansara
Author(s): Kundkundacharya, A N Upadhye
Publisher: Manilal Revashankar Zaveri Sheth
View full book text
________________
६८.] - प्रवचनसारः -
३५९ - णिच्छिदसुत्तत्थपदो समिदकसाओ तवोधिगो चावि ।
लोगिगजणसंसरगं ण चयदि जदि संजदो ण हवादि ॥ ६८॥
निश्चितसूत्रार्थपदः समितकषायस्तपोऽधिकश्चापि ।
लौकिकजनसंसर्ग न त्यजति यदि संयतो न भवति ॥ ६८ ॥ यतः सकलस्यापि विश्ववाचकस्य सल्लक्ष्मणः शब्दब्रह्मणस्तद्वाच्यस्य सकलस्यापि सल्लक्ष्मणो विश्वस्य च युगपदनुस्यूततदुभयज्ञेयाकारतयाधिष्ठानभूतस्य सलक्ष्मणो ज्ञातृतत्त्वस्य निश्चयनयानिश्चितसूत्रार्थपदत्वेन निरुपरागोपयोगत्वात् समितकषायत्वेन बहुशोऽभ्यस्तनि
कम्पोपयोगत्वात्तपोऽधिकत्वेन च सुष्टु संयतोऽपि सप्ताचिःसंगतं तोयमिवावश्यं भाविइत्यादि चतुर्दशगाथाभिः स्थलचतुष्टयेन श्रामण्यापरनामा मोक्षमार्गाभिधानस्तृतीयान्तराधिकारः समाप्तः । अथानन्तरं द्वात्रिंशद्गाथापर्यन्तं पञ्चभिः स्थलैः शुभोपयोगाधिकारः कथ्यते । तत्रादौ 'लौकिकसंसर्गनिषेधमुख्यत्वेन 'णिच्छिदसुत्तत्थपदो' इत्यादिपाठक्रमेण गाथापञ्चकम् । तदनन्तरं सरागसंयमापरनामशुभोपयोगस्वरूपकथनप्रधानत्वेन 'समणा सुद्धवजुत्ता' इत्यादि सूत्राष्टकम् । ततश्च पात्रापात्रपरीक्षाप्रतिपादनरूपेण 'रागो पसत्थभूदो' इत्यादि गाथापटूम् । ततः परमाचारादिविहितक्रमेण पुनरपि संक्षेपरूपेण समाचारव्याख्यानप्रधानत्वेन 'दिट्ठा पगदं वत्थु' इत्यादि सूत्राष्टकम् । ततः परं पञ्चरत्नमुख्यत्वेन 'जे अजधागहिदत्था' इत्यादि गाथापञ्चकम् । एवं द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन चतुर्थान्तराधिकारे समुदायपातनिका । तद्यथा अथ लौकिकसंसर्ग प्रतिषेधयति-णिच्छिदसुत्तत्थपदो निश्चितानि ज्ञातानि निर्णीतान्यनेकान्तखभावनिजशुद्धात्मादिपदार्थप्रतिपादकानि सूत्रार्थपदानि येन स भवति निश्चितसूत्रार्थपदः समिदकसाओ परविषये क्रोधादिपरिहारेण तथाभ्यन्तरे परमोपशमभावपरिणतनिजशुद्धात्मभावनाबलेन च शमितकषायः तवोधिगो चावि अनशनादिबहिरङ्गितपोवलेन तथैवाभ्यन्तरे शुद्धात्मभावनाविषये प्रतिपन्नाद्विजयनाच्च तपोऽधिकश्चापि सन् स्वयं संयतः कर्ता लोगिगजणसंसग्गं ण चयदि जदि लौकिकाः खेच्छाचारिणस्तेषां संस! लौकिकसंसर्गस्तं न त्यजति यदिचेत् संजदो ण हवदि तर्हि संयतो न भवतीति । अयमत्रार्थः-खयं भावितात्मापि यद्यसंवृतजनसंसर्ग निश्चय करलिये हैं, सिद्धान्त और जीवादि पदार्थ जिसने समितकषायः] और जिसने कषायोंको शांत किया है, [च] और जो [तपोऽधिकः अपि ] तपस्याकर उत्कृष्ट है, तो भी [यदि ] जो [ लौकिकजनसंसर्ग] चारित्रभ्रष्ट अज्ञानी मुनियोंकी संगति [ न जहाति ] नहीं छोड़ता है, तो वह [ संयतः] संयमी मुनि [ न भवति] नहीं होसकता। भावार्थ-जो भगवत्प्रणीत शब्दब्रह्मका जाननेवाला है, आत्मतत्त्वको भी जानता है, बहुत अभ्यासकर निष्कंप उपयोगी है, और तपकी अधिकतासे उत्कृष्ट संयमी भी है, इत्यादि अनेक गुणोंकर युक्त है, तो भी लौकिक मुनिकी जो संगति नहीं छोड़े, तो वह संयमी नहीं होसकता । जैसे आगके सम्बन्धसे उत्तम शीतल

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595