________________
३३२
- रायचन्द्रजैनशास्त्रमाला [अ० ३, गा० ४०* २१ -
MCC
अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वयौगपद्यात्मज्ञानयौगपद्यं साधयतिपंचसमिदो तिगुत्तो पंचेंद्रियसंवुडो जिदकसाओ । दंसणणाणसमग्गो समणो सो संजदो भणिदो ॥ ४० ॥ पञ्चसमितस्त्रिगुप्तः पञ्चेन्द्रियसंवृतो जितकषायः ।
दर्शनज्ञानसमग्रः श्रमणः स संयतो भणितः ॥ ४० ॥
यः खल्वनेकान्तकेतनागमज्ञानबलेन सकलपदार्थज्ञेयाकारकरम्बित विशदै कज्ञानाकारमात्मानं श्रद्दधानोऽनुभवंश्वात्मन्येव नित्यनिश्चलां वृत्तिमिच्छन् समितिपञ्चकाङ्कुशितप्रवृत्तिप्रवर्तितसंयमसाधनीकृतशरीरपात्रः क्रमेण निश्चलनिरुद्धपञ्चेन्द्रियद्वारतया समुपरतका - यवाङ्मनोव्यापारो भूत्वा चिद्वृत्तेः परद्रव्यचङ्क्रमणनिमित्तमत्यन्तमात्मना सममन्योन्यसंनयात्मकं खसंवेदनज्ञानं नास्तीति ॥ ३९ ॥ अथ द्रव्यभावसंयमखरूपं कथयति - चाय अणारंभ विसयविरागो खओ कसायाणं । सो संजोति भणिदो पबजाए विसेसेण ॥ * २१ ॥
-
चागो य निजशुद्धात्मपरिग्रहं कृत्वा बाह्याभ्यन्तरपरिग्रह निवृत्तिस्त्यागः अणारंभो निःक्रियनिजशुद्धात्मद्रव्ये स्थित्वा मनोवचनकायव्यापारनिवृत्तिरनारम्भः विसयविरागो निर्विषयस्वात्मभात्रनोत्थसुखे तृप्तिं कृत्वा पञ्चेन्द्रियसुखाभिलाषत्यागो विषयविरागः । खओ कसायाणं निःकषायशुद्धात्मभावनाबलेन क्रोधादिकषायत्यागः कषायक्षयः । सो संजमो त्ति भणिदो स एवंगुणविशिष्टः संयम इति भणितः । पवज्जाए विसेसेण सामान्येनापि तावदिदं संयमलक्षणं प्रव्रज्यायां तपश्चरणावस्थायां विशेषेणेति । अत्राभ्यन्तरशुद्धा संवित्तिर्भावसंयमो बहिरङ्गनिवृत्तिश्च द्रव्यसंयम इति ॥२१॥ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां त्रयाणां यत्सविकल्पं यौगपद्यं तथा निर्विकल्पात्मज्ञानं चेति द्वयोः संभवं दर्शयति - पंचसमिदो व्यवहारेण पञ्चसमितिभिः समितः संवृतः पञ्चसमितः निश्चयेन तु खखरूपे सम्यगितो गतः 'जिसके आगमज्ञान, तत्त्वार्थश्रद्धान, संयमभावकी एकता है, और आत्मज्ञानकी एकता है, उस पुरुषका स्वरूप कहते हैं -- [ स श्रमणः ] वह महामुनि [ संयतः ] संयमी [ भणितः ] भगवंतदेवने कहा है, जो कि [ पञ्चसमितः ] ईर्यादि पाँच समिति - यको पालता है [ त्रिगुप्तः ] तीन योगोंके निरोधसे तीन गुप्तिवाला हैं, [ पञ्चेन्द्रियसंवृतः ] पाँच इन्द्रियोंको रोकनेवाला [जितकषायः ] कपायोंको जीतनेवाला और [ दर्शनज्ञानसमग्रः ] दर्शन ज्ञानसे परिपूर्ण है। भावार्थ- जो पुरुष स्याद्वादरूप आगमसे सकल ज्ञेयाकारकर प्रतिविम्वित, निर्मल ज्ञानस्वरूप आत्माको जानता है, श्रद्धान करता है, अनुभवता है, अपने में निश्चल वृत्तिको चाहता है, जिसने पाँच समिति के आचरणसे स्वेच्छाचार वृत्तिको रोककर, अपने शरीर और संयमका साधन किया है, क्रमसे निश्चल होके पंचेन्द्रियोंका निरोध किया है, जिसके मन, वचन, कायसे कषाय दूर हुए