________________
११९
१.]
'-प्रवचनसारः-- अत्थो खलु दवमओ दवाणि गुणप्पगाणि भणिदाणि । तेहिं पुणो पजाया पजयमूढा हि परसमया ॥१॥
अर्थः खलु द्रव्यमयो द्रव्याणि गुणात्मकानि भणितानि ।
तैस्तु पुनः पर्यायाः पर्ययमूढा हि परसमयाः ॥ १॥ "इह हि किल यः कश्चन परिच्छिद्यमानः पदार्थः स सर्व एव विस्तारायतसामान्यसमुदायात्मना द्रव्येणाभिनिवृत्तत्वाद्रव्यमयः । द्रव्याणि तु पुनरेकाश्रयविस्तारविशेषात्मकैरभिनिर्वृत्तत्वाद्गुणात्मकानि । पर्यायास्तु पुनरायतविशेषात्मका उक्तलक्षणैव्यैरपि गुणैरप्यभिनिवृत्तत्वाद्रव्यात्मका अपि गुणात्मका अपि । तत्रानेकद्रव्यात्मकैक्यप्रतिपत्तिनिबन्धनो द्रव्यपर्यायः । स द्विविधः, समानजातीयोऽसमानजातीयश्च । तत्र समानजातीयो नाम यथा अनेकपुद्गलात्मको द्वयणुकत्र्यणुक इत्यादि, असमानजातीयो नाम यथा जीवपुगलात्मको देवो मनुष्य इत्यादि । गुणद्वारेणायतानैक्यप्रतिपत्तिनिबन्धनो गुणपर्यायः । सोऽपि द्विविधः स्वभावपर्यायो विभावपर्यायश्च । तत्र स्वभावपर्यायो नाम समस्तद्रव्याणामास्मीयात्मीयागुरुलघुगुणद्वारेण प्रतिसमयसमुदीयमानषट्स्थानपतितवृद्धिहानिनानात्वानुभूतिः, विभावपर्यायो नाम रूपादीनां ज्ञानादीनां वा स्वपरप्रत्ययवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्योपदर्शितस्वभावविशेषानेकत्वापत्तिः । अथेदं दृष्टान्तेन द्रढयति-यथैव हि सर्व एव पटोऽवस्थायिना विस्तारसामान्यसमुदायेनाभिधावताऽऽयतसामान्यसमुदायेन चाभिनिवर्त्यशङ्काद्यष्टदोषरहितश्च यः परमार्थतोऽर्थावबोधो यस्मात्सम्यक्त्वात्तत् परमार्थविनिश्चयाधिगमम् । अथवा परमार्थविनिश्चयोऽनेकान्तात्मकपदार्थसमूहस्तस्याधिगमो यस्मादिति ॥१॥ अथ पदार्थस्य द्रव्यगुणपर्यायस्वरूपं निरूपयति-अत्थो खलु दवमओ अर्थो ज्ञानविषयभूतः पदार्थः खलु स्फुटं द्रव्यमयो भवति । कस्मात् । तिर्यक्सामान्योर्द्धतासामान्यलक्षणेन द्रव्येण निष्पन्नत्वात् । कहते हैं-[खल ] निश्चयसे [ अर्थः] ज्ञेयपदार्थ [ द्रव्यमयः] सामान्य स्वरूप वस्तुमय है [तु] तथा [ द्रव्याणि ] समस्त द्रव्य [गुणात्मकानि ] अनन्तगुण स्वरूप [भणितानि] कहे हैं। [पुनः] और [तैः] उन द्रव्य गुणोंके परिणमन करनेसे [पर्यायाः ] पर्याय हैं, अर्थात् द्रव्यपर्याय और गुणपर्याय ये दो भेद सहित पर्याय हैं, और [ पर्ययमूढा ] अशुद्ध पर्यायोंमें मूढ़ अर्थात् आत्मबुद्धिसे पर्यायको ही द्रव्य माननेवाले अज्ञानी [हि ] निश्चयकर [ परसमयाः] मिथ्यादृष्टि हैं । भावार्थ-जितने ज्ञेयपदार्थ हैं, वे समस्त गुण पर्याय सहित हैं, इसलिये द्रव्य एक आधारभूत अनन्तगुणस्वरूप है । गुणका नाम विस्तार है, और पर्यायका नाम आयत है । विस्तार चौड़ाईको कहते हैं, और आयत लम्बाईको कहते हैं । गुण चौड़ाईरूप अविनाशी सदा सहभूत ( साथ रहनेवाले ) हैं, और पर्याय लम्बाईरूप हैं