________________
- रायचन्द्रजैनशास्त्रमाला -
दबं सहावसिद्धं सदिति जिणा तचदो समक्खादा । सिद्धं तथ आगमदो नेच्छदि जो सो हि परसमओ ॥ ६ ॥ द्रव्यं स्वभावसिद्धं सदिति जिनास्तत्त्वतः समाख्यातवन्तः । सिद्धं तथा आगमतो नेच्छति यः स हि परसमयः ॥ ६ ॥
न खलु द्रव्यैर्द्रव्यान्तराणामारम्भः सर्वद्रव्याणां स्वभावसिद्धत्वात् । स्वभावसिद्धत्वं तु तेषामनादिनिधनत्वात् । अनादिनिधनं हि न साधनान्तरमपेक्षते । गुणपर्यायात्मानमात्मनः स्वभावमेव मूलसाधनमुपादाय स्वयमेव सिद्धसिद्धिमद्भूतं वर्तते । यत्तु द्रव्यैरारभ्यते न तद्रव्यान्तरं कादाचित्कत्वात् स पर्यायः । द्व्यणुकादिवन्मनुष्यादिवच्च । द्रव्यं पुनरनवधि त्रिसमयावस्थायि न तथा स्यात् । अथैवं यथा सिद्धं खभावत एव द्रव्यं तथा सदित्यपि तत्स्वभावत एव सिद्धमित्यवधार्यताम् । सत्तात्मनः स्वभावेन निष्पन्ननिष्पत्तिमद्भावयुक्तत्वात् । न च द्रव्यादर्थान्तरभूता सत्तोपपत्तिमभिप्रपद्यते, यतस्तत्समवायात्तत्सदिति स्यात् । सतः सत्तायाश्च न तावद्युतसिद्धत्वेनार्थान्तरत्वं, तयोर्दण्डएवेत्याख्याति - दवं सहावसिद्धं द्रव्यं परमात्मद्रव्यं स्वभावसिद्धं भवति । कस्मात् । अनाद्यनन्तेन परहेतुनिरपेक्षेण स्वतः सिद्धेन केवलज्ञानादिगुणाधारभूतेन सदानन्दैकरूपसुखसुधारसपरमसमरसीभावपरिणत सर्वशुद्धात्मप्रदेशभरितावस्थेन शुद्धोपादानभूतेन स्वकीयस्वभावेन निष्पन्नत्वात् । यच्च स्वभावसिद्धं न भवति तद्द्रव्यमपि न भवति । द्व्यणुकादिपुद्गलस्कन्धपर्यायवत् मनुष्यादिजीवपर्यायवच्च । सदिति यथा स्वभावतः सिद्धं तद्द्रव्यं तथा सदिति सत्तालक्षणमपि स्वभावत एव भवति, न च भिन्नसत्तासमवायात् । अथवा यथा द्रव्यं स्वभावतः सिद्धं तथा तस्य योऽसौ सत्तागुणः सोऽपि स्वभावसिद्ध एव । कस्मादिति चेत् । सत्ता
१३२
[ अ० २, गा० ६
[ द्रव्यं ] गुणपर्यायरूप वस्तु [ खभावसिद्धं ] अपने स्वभावसे निष्पन्न है । और वह [ सत् इति ] सत्तास्वरूप है, ऐसा [ जिना: ] जिनभगवान् [ तत्त्वतः ] स्वरूपसे [ समाख्यातवन्तः ] भले प्रकार कहते हैं । [ यः ] जो पुरुष [ आगमतः ] शास्त्रसे [ तथा सिद्धं ] उक्त प्रकार सिद्ध [ न इच्छति ] नहीं मानता है, [हि ] निश्चयकरके [सः ] वह [ परसमयः ] मिथ्यादृष्टि है । भावार्थ- द्रव्य अनादिनिधन है, वह किसीका कारण पाके उत्पन्न नहीं हुआ है, इस कारण स्वयंसिद्ध है । अपने गुण पर्याय खरूपको मूलसाधन अंगीकार करके आप ही सिद्ध है । और जो द्रव्योंसे उत्पन्न होते हैं, वे कोई अन्य द्रव्य नहीं, पर्याय होते हैं; परंतु पर्याय स्थायी नहीं होते - नाशमान होते हैं । जैसे परमाणुओंसे द्व्यणुकादि स्कंध तथा जीव पुद्गलसे मनुष्यादि होते हैं । ये सब द्रव्यके पर्याय हैं, कोई नवीन द्रव्य नहीं हैं । इससे सिद्ध हुआ, कि द्रव्य त्रिकालिक स्वयंसिद्ध है, वही सत्ता स्वरूप है । जैसे द्रव्य स्वभावसिद्ध