________________
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ६९देवदजदिगुरुपूजासु चेव दाणम्मि वा सुसीलेसु। - उववासादिसु रत्तो सुहोवओगप्पगो अप्पा ॥ ६९॥
देवतायतिगुरुपूजासु चैव दाने वा सुशीलेषु । ... उपवासादिषु रक्तः शुभोपयोगात्मक आत्मा ॥ ६९ ॥
यदायमात्मा दुःखस्य साधनीभूतां द्वेषरूपामिन्द्रियार्थानुरागरूपां चाशुभोपयोगभूमिकामतिक्रम्य देवगुरुयतिपूजादानशीलोपवासप्रीतिलक्षणं धर्मानुरागमङ्गीकरोति तदेन्द्रियसुखस्य साधनीभूतां शुभोपयोगभूमिकामधिरूढोऽभिलप्येत ॥ ६९॥ ____ अथ शुभोपयोगसाध्यत्वेनेन्द्रियसुखमाख्याति-- : जुत्तो सुहेण आदा तिरियो वा माणुसो व देवो वा। ... भूदो तावदि कालं लहदि सुहं इंदियं विविहं ॥ ७० ॥ विवरणं करोति-देवंदजदिगुरुपूजासु चेव दाणम्मि वा सुसीलेसु देवतायतिगुरुपूजासु चैव दाने वा सुशीलेषुः उववासादिसु रत्तो तथैवोपवासादिषु चू. रक्त आसक्तः अप्पा जीवः सुहोवओगप्पगो शुभोपयोगात्मको भण्यते इति । तथाहि-देवता निर्दोषिपरमात्मा, इन्द्रियजयेन शुद्धात्मस्वरूपप्रयत्नपरो यतिः, स्वयं भेदाभेदरत्नत्रयाराधकस्तदर्थिनां भव्यानां जिनदीक्षादायको गुरुः, पूर्वोक्तदेवतायतिगुरूणां तत्प्रतिबिम्बादीनां च यथासंभवं द्रव्यभावरूपा पूजा, आहारादिचतुर्विधदानं च आचारादिकथितशीलव्रतानि तथैवोपवासा जिनगुणसंपत्त्यादिविधिविशेषाश्च । एतेषु शुभानुष्ठानेषु योऽसौ रतः द्वेषरूपे विषयानुरागे चाशुभानुष्ठाने विरतः, स जीवः शुभोपयोगी भवतीति सूत्रार्थः ।। ६९ ।। अथ पूर्वोक्तशुभोपयोगेन साध्यमिन्द्रियसुखं कथयति-सुहेण जुत्तो आदा यथा निश्चयरत्नत्रयात्मकशुद्धोपयोगेन युक्तो ( स्वभावों) में, [ उपवासादिषु] आहार आदिके त्यागोंमें [एव] निश्चयसे [रक्तः] लवलीन है, ['स' आत्मा] वह जीव [शुभोपयोगात्मकः] शुभोपयोगी अर्थात् शुभ परिणामवाला है। भावार्थ-जो जीव धर्ममें अनुराग (प्रीति) रखते हैं, उन्हें इंद्रियसुखकी साधनेवाली शुभोपयोगरूपी भूमिमें प्रवर्तमान कहते हैं, ॥ ६९ ॥ आंगे शुभोपयोगसे इंद्रियसुख होता है, ऐसा कहते हैं-[शुभेन युक्तः]. शुभोपयोगकर सहित [आत्मा] जीव [तिर्यक् ] उत्तम तिर्यच [वा] अथवा [मानुषः] उत्तम मनुष्य [वा] अथवा [देवः] उत्तम देव [भूतः] होता हुआ [तावत्कालं] उतने कालतक, अर्थात् तिर्यंच आदिकी जितनी स्थिति है, उतने समयतक, [विविधं] नाना प्रकारके [ऐन्द्रियं सुखं] इंद्रियजनित सुखोंको [लभते] पाता है। भावार्थ-यह जीव शुभ परिणामोंसे तिर्यंच, मनुष्य और देव, इन - तीन -गतियोंमें उत्पन्न होता है, वहाँपर अपनी अपनी कालकी स्थिति तक अनेक