Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 12
________________ मदिरावतीकथा | धर्मश्रद्धायां मदिरावतीकथा तरङ्ग - १ बुधैर्विधीयतामेको, धर्मः परमबान्धवः । ददिरे मदिरावत्यै, येन वाञ्छितसिद्धयः ॥१॥ जयन्तीत्यस्ति नगरी गरीय:सम्पदास्पदम् । दातार एव सीदन्ति, यस्यामर्थिजनार्थिनः ॥२॥ नृसिंह इति नाम्ना च, धाम्ना च नगरीमिमाम् । भूपालः पालयामास, वासवः स्वःपुरीमिव ॥३॥ अभूत्तस्य प्रभावत्यामत्यद्भुतगुणैकभूः । सुता युवजनोन्माद-मदिरा मदिरावती ॥४॥ अन्यदा मेदिनीनाथः, कृतप्राभातिकक्षणः । सुधर्मायाः सधर्माणमास्थानीमास्थितो निजाम् ॥५॥ सुतां विनिर्जिताऽशेष-त्रिदशस्त्रैणविभ्रमाम् । उत्सङ्गसङ्गिनी कुर्वन्, दोस्तम्भे शालभञ्जिकाम् ॥६॥ अमात्य-मन्त्रि-दण्डेश-मण्डलेशादिकान् पुरः । पश्यन् सगर्वगीर्वाणान्, किंकुर्वाणानिवात्मनः ॥७॥ मन्यमानस्तदात्मानं, शतमन्योर्विजित्वरम् । उवाच कथ्यतां तथ्यं, ममाग्रे सामवायिकाः ।।८।।(चतुर्भिः कलापकम्) कस्य प्रसादमासाद्य, जितत्रिदशवैभवम् । भवन्तो भुञ्जते राज्यं, कमलाकेलिविभ्रमम् ॥९॥ इति राज्ञो वचः प्राप्य, नवाम्भस्तोयदादिव । सद्यः सम्प्रवदन्ते स्म, ततस्ते दर्दुरा इव ॥१०॥ कथारत्नसागरे महीमहीन्द्रस्त्वं देव !, त्वं विधिर्वसुधातले । तवभ्रूपल्लवप्रान्त-नितान्तवशगाः श्रियः ॥११॥ तव प्रसादो मेदिन्यां, जीवातुरिति वादिषु । सहासं क्वणयामास, वदनं मदिरावती ॥१२॥ ततः सकोपभूपाल-पृष्टा स्पष्टमुवाच सा । देव ! मायाविनां वाचो, मामन्तर्व्यथयत्यमूः ॥१३॥ आरङ्कादथ देवेन्द्राः, दुःखस्य च सुखस्य च । सम्पत्तिहेतवे तात !, प्राक्तनं कर्मकर्मठम् ॥१४॥ निमित्तमात्रमत्र स्यात्प्रभावः प्राभवः पुनः । नैकरूपस्तवैतेषु प्रसादः कथमन्यथा ? ॥१५॥ सद:सरोवरबकैः, सेवकैर्विप्रतारिताः । कलावन्तोऽपि वैकल्यं, कलयन्ति महीभृतः ॥१६॥ इत्याकर्ण्य वचस्तस्या, भृकृटिस्थपुटाननाः । आस्थानी च सुतां तां च, विसृज्य वसुधाधिपः ॥१७॥ अलीकजल्पवाचाले ! बाले ! जनकवैरिणी! । न चिराद् द्रक्ष्यसि स्वस्य, कर्मणः सकलं फलम् ॥१८॥ तर्जयित्वा सुतामित्थमथाऽस्याः पाणिपीडने । लक्ष्मीरूपवयोऽतीतं, विकलाङ्गमजङ्गमम् ॥१९॥ अप्रशस्तं महारोग-ग्रस्तमस्ताखिलक्रियम् । नरं गवेषयामास, पुरुषैः परुषाशयः ॥२०॥(चतुर्भिः कलापकम्) रङ्कः कोऽपि पुरीद्वारि, तादृशस्तैरवाप्यत । स्कन्धमारोप्य सामीप्यं, प्रापितश्च महीपतेः ॥२१॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109