Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 64
________________ तरङ्ग-१२ : अदत्तादाने वीर्यरामकथा सुप्तस्तद्बहिरुद्याने, नन्दनोद्याननन्दिनि । कर्ण्यमाकर्णयांचक्रे, स्वाध्यायध्वनिमद्भुतम् ॥१२ ॥ ततस्तदनुसारेण, मध्येचूतवनं व्रजन् । ददर्श दर्शनीयाना-मवधिं मुनिपुङ्गवम् ॥१३॥ तं प्रणम्य पुरस्तस्य निषण्णः पृथिवीतले । धर्मोपदेशं शुश्राव श्रवणामृतनिर्झरम् ॥१४॥ भवेऽस्मिन् भविनामेको, धर्मो बन्धुर्महाधनम् । विद्या वैद्यः पिता माता, दाता त्राता सुखं सखा ॥ १५ ॥ तदहो ! सर्वदेवाना - माराध्यो बुद्धिशालिना । आराधनं च तस्यैकं, परपीडाविवर्जनम् ॥१६ ॥ तदर्थमेव सेव्यन्ते, ह्यहिंसादिव्रतान्यपि । दर्शनान्यपि नैवात्र, विवदन्ते परस्परम् ॥१७॥ वीर्यरामस्तदासाद्य मुनिजीमूतगर्जितम् । ततो विवेकी केकीव-जगादोद्दामसम्पदः ॥ १८ ॥ अद्य प्रभृति हिंसाद्यं, त्याज्यं मे परपीडनम् । परद्रव्यापहारस्तु ज्ञातदुःखो विशेषतः ॥ १९ ॥ इत्यात्तव्रतरत्नोऽसौ प्रभाते प्राविशत् पुरीम् । श्रेष्ठिनो जयदेवस्य हट्टे च समुपाविशत् ॥२०॥ तेनापि पृष्टवृत्तान्तः, सुतत्वेन स मानितः । सर्वत्र मुखमीक्षन्ते, सम्पदः पुण्यशालिनाम् ॥२१॥ श्रेष्ठी देवान्नमस्कृत्याऽन्यदा सदनमागमत् । नैवाद्राक्षीन्निजाङ्गुल्या मङ्गुलीयममूल्यकम् ॥२२॥ कुत्रापि पतितं नूनं यावदित्यनुशोचति । तावच्चैत्यादुपागत्य, वीर्यरामस्तदार्पयत् ॥२३॥ १०७ कथारत्नसागरे १०८ श्रेष्ठी हृष्टोऽवदद्वत्स!, कुत्र लब्धमिदं त्वया ? | सोऽप्याख्याद्देवपादान्त-गतमासादितं मया ॥२४ ॥ अचिन्तयदिदं श्रेष्ठी, सुतस्याहो ! निरीहता । एकाकिनापि यल्लब्धमिदं मम समर्पितम् ॥२५ ॥ नररत्नैः परद्रव्या-पहारपरिहारिभिः । ईदृग्भरेव मन्येऽहं रसारत्नप्रसूरसौ ॥२६ ॥ श्रेष्ठिना तत्प्रभृत्येव, सविशेषममान्यत । अर्थशौचं हि लोकेषु, सुभगङ्करणं परम् ॥२७॥ अन्यदा श्रेष्ठिनस्तस्य सुखासीनस्य सद्मनि । कोऽप्येत्य दर्शयामास, मुकुटं मणिमण्डितम् ॥२८॥ अन्तिकस्थस्तदा वीर्य रामः समुपलक्ष्य तम् । ऊचिरे काल! लब्धोऽसि, सलोप्त्रस्तस्करश्चिरात् ॥ २९ ॥ कालोऽपि धाष्टयमालब्य, क्रुध्यन्निव तदावदत् । कः कालः ? को भवान् ?, किं वा चौरङ्कारं वदत्यदः ? ||३०|| अहं हि सुन्दरो नाम, पृथुना पृथिवीभुजा । प्रेषितोऽस्म्यत्र विक्रेतुं इदमाभरणं निजम् ॥३१ ॥ तत्तावदर्थो दूरेऽस्तु, चौर्यमत्रार्जितं मया । कुसङ्गतो न मृत्युश्चेत्, तन्मालिन्यं ध्रुवं भवेत् ॥३२॥ श्रेष्ठ्यपि ज्ञातवृत्तान्तो नार्पयामास तस्य तत् । पूत्कारकारी सोऽप्येत्य, भूपतिं तं व्यजिज्ञपत् ॥३३॥ नृपोऽपि वीर्यरामेण व्यवहारमकारयत् । तत्र स्वाधिकृतैश्चक्रे, जलदिव्यस्य निर्णयः ॥ ३४ ॥ चण्डिकायतनं तत्र चास्ति मध्ये महाद्रहम् । चर्चिकामर्चयेद् बुधः प्रविश्यात्र तदम्बुजैः ॥ ३५ ॥

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109