Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 87
________________ १५३ तरङ्ग-१५ : अगडदत्तकुमारचरितम् पतिर्जानातु वा मा वा, तथाप्याराध्यताऽनया । स्वभावादेव दत्ते हि, कौमुदी कुमुदे मुदम् ॥२८७ ॥ ऐक्यं भुवनपालस्य सुन्दरस्य च भूभुजः । तेन तेन समासेन, भिन्नयोः पदयोरिव ॥२८८ ॥ स चक्रे क्रान्तदिक्चक्रं, प्रतापं नृपयोर्द्वयोः । सौरभ्यं दक्षिणो वायु-मधुमाधवयोरिव ॥२८९ ॥ वैभवस्पर्द्धयेवासौ, श्रद्धया वर्द्धमानया । आराधयदुपाध्याय, कुर्वन् श्रीभोगभागिनम् ॥२९० ॥ यमाशागोचरं याते शूरे साक्षिणि कर्मणाम् । शिशिरव्यथितां पृथ्वीमुज्जिजीवयिषु स्वयम् ॥२९१ ॥ कदाचिन्मधुमत्ताभिर्भूङ्गीभिर्गीतमङ्गलः । तन्वन्वनान्तरावासा-नृतुराजः समाययौ ॥२९२॥ (युग्मम्) ततोऽसौ वनराजीषु नूतनां पत्रसम्पदम् । चक्रे किञ्चन वोन्मीलत्कमलान् कमलाकरान् ॥२९३ ॥ रचयामास दौर्भाग्य-दोषमोषं सुरश्रियाम् । मधुपानां च पुष्पेषु, मधुपानमहोत्सवम् ॥२९४ ॥ सारसारस्वतोद्गारम-करोत् कोकिलाकुलम् । प्रददौ फलसम्भारं, सहकारमहीरुहाम् ॥२९५ ।। ददौ सुहृदि सौभाग्य-सम्पदं मलयानिले । तेजः संवर्धयामास, मांसलानन्दमैन्दवम् ॥२९६ ॥ तस्य चाऽनन्यसामान्यसौहार्दस्य मनोभुवः । जैत्रमासूत्रयामास, प्रतापमवनीतले ॥२९७॥ ऋतुराजस्य साम्राज्ये, जगत्येवं विजृम्भिते । भूपोऽभिराममारामं, जगाम सपरिच्छदः ॥२९८॥ १५४ कथारत्नसागरे तदा चाऽगडदत्तोपि, चन्दनद्रवचर्चितः । उत्फुल्लमल्लिकामाल्य-वेल्लधम्मिल्लबन्धनः ॥२९९ ॥ नि:श्वासहार्यसंवीत-श्वेतचीनांशुकोज्ज्वलः । पुरः कौतुकिसङ्गीत-विलोभितविलोचनः ॥३०० ॥ अङ्गीकृतक्षुण्णपथे, रथे मदनमञ्जरीम् । आरोप्य प्रापदुद्यान-मानन्दमयमानसः ॥३०१॥ तत्र केचिद्यतिस्थान-लयत्रयपवित्रितम् । पुरः स्मरस्य सङ्गीतमवगीतं वितेनिरे ॥३०२ ॥ केप्युच्चतालमालम्ब्य, स्थैरविन्यस्तहस्तकम् । नृत्यन्तः सूत्रयामासु-रापानकमहोत्सवम् ॥३०३ ॥ केचिदुच्चेतुमुच्चानि तरुपुष्पाणि पाणिना । बद्धस्पर्धं वधूं प्राहु-बहुमूललुलदृशः ॥३०४॥ प्रेयसी तामनादृत्य निवारणपरा गिरः । दोलामन्दोलयामासुः केपि सप्राणपाणयः ॥३०५ ॥ सदम्भमाम्भसीकीर्तिवल्लभाभिः समं मुहुः । सरन्तोपसरन्तश्च जलैर्युयुधिरे परे ॥३०६॥ एवं विनोदैरानन्द-कन्दकन्दलताम्बुदैः । तदा निर्गमयामास वासरं भूमिवासवः ॥३०७॥ कुमारः सपरीवारः समं दयितया तया । मनोविनोदनानन्दै-दिवसं विवशोऽनयत् ॥३०८॥ तदालोकं पुरस्कृत्य विनिवृत्तावुभावपि । अम्बरादम्बरमणिर्वनदेवेति वल्लभाः ॥३०९।। कुमारस्तु वनक्रीडा-रभसश्रान्तया तया । प्रार्थितः प्रियया तत्र, विसृष्टः सपरिच्छदः ॥३१०॥

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109