Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 95
________________ तरङ्ग-१५ : अगडदत्तकुमारचरितम् १६९ संयमः सूनृतं शौचं, ब्रह्माऽकिञ्चिनता तपः । क्षान्तिर्दिवमृजुता, मुक्तिधर्मो दशात्मकः ॥४७६ ॥ अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलोभता । सर्वतो विरतस्येति, धर्मः पञ्चविधोच्यते ॥४७७ ॥ अणुव्रतानि पञ्चैव, सप्त शिक्षाव्रतानि च । व्रतैर्द्वादशभिः शोभी, धर्मोऽयं गृहमेधिनाम् ॥४७८ ॥ पर्यालोच्य ततः स्वस्य, सत्त्वतत्त्वं विवेकिना । द्वयोरेकतरं कर्तु, यतितव्यं यतात्मना ॥४७९॥ देशनान्ते मुनिं नत्वा, राजसूनुर्व्यजिज्ञपत् । प्रभो ! प्रसादात्ते धर्म-बन्धवोऽमी ममाऽभवत् ॥४८० ॥ तत् प्रसीद यथा पित्रा, कृतनिष्क्रमणोत्सवाः । भवार्णवतरीं दीक्षां, तव हस्ताल्लभेमहि ॥४८१ ।। एवं विज्ञपयन् यस्मिंस्तैः सविस्मयमीक्षितः । उत्तताराम्बरात् कोऽपि, विद्याधरधराधिपः ॥४८२ ॥ स सत्वरपरीवारोपनीतैः कुसुमादिभिः ।। श्रीमन्नाभेयमभ्यर्च्य, नत्वा मुनिमुपाविशत् ॥४८३ ।। विद्याधरेश्वरे तस्मिन्, विस्मितैस्तैर्निरीक्षिते । मुनिः शसंस पुत्रोऽसौ, रत्नचूडनृपो मम ॥४८४ ॥ खेचरेशः स तैर्नत्वा, ज्ञापितः स्वमनोरथम् । सोऽप्यारोप्य विमानं तं, निन्ये शङ्खपुरेऽथ तान् ॥४८५ ॥ निष्कारणजगद्वन्धुः, कृपासिन्धुर्मुनीश्वरः ।। रभसाद् नभसाऽभ्येत्य, पुरासन्ने वने स्थितः ॥४८६ ॥ विद्याधरेश्वरानीतं, ज्ञात्वा सुतमथो नृपः । हर्षान्नृत्यत्पुरं चक्रे, प्रेङ्कुच्चेलाञ्चलैश्चलैः ॥४८७॥ १७० कथारत्नसागरे विद्याधरेश्वरं तं च, ज्येष्ठबन्धुमिवादरात् । अभ्युत्थितं समालिङ्ग्य, सौध एवोदतारयत् ॥४८८॥ कुमारोऽथ यथावृत्तं, वृत्तान्तं मूलतः पितुः । सर्व निवेदयामास, स्वं च व्रतमनोरथम् ॥४८९॥ कथञ्चिदथ सम्बोध्य, चतुरं पितरं ततः । अन्तरन्तःपुरं गत्वा, नमन्मातुरमातुरम् ॥४९० ॥ प्रीतां तामप्यनुज्ञाप्य, निजवृत्तान्तकीर्तनात् । निजावासमथाऽभ्येत्य, पौरान् हृष्टान् विसृष्टवान् ॥४९१ ।। अथ स्वान्तःपुरं गत्वा, प्रतीष्ठोचितमङ्गलः । देव्या कमलमालायाः, स्वानुभूतं न्यवेदयत् ॥४९२ ॥ अब्रवीच्च महामोहान्नेता रीतिं सुवर्णताम् । स्वर्णं तु रीतिभावेन, स्पष्टं दृष्टमवज्ञया ॥४९३ ॥ यतः सत्क्रियमाणोऽपि, नेच्छता विक्रियामगात् । त्वं तु सन्ताप्यमानापि, मानयस्यधिकाधिकम् ॥४९४ ।। श्यामता शीतवातेऽपि, वह्निवातेऽपि पीतता । रीतिका-स्वर्णयोईष्टमिति सुव्यक्तमन्तरम् ॥४९५ ।। ममापराधः सर्वोऽयं, तत्क्षन्तव्यस्त्वया प्रिये ! । साप्यूचे सेवकः स्वामिन्नपराधी न तु प्रभुः ॥४९६ ।। बन्धुर्वर्गमथापृच्छ्य, कृत्वा पूज्येषु पूजनम् । सङ्घ सादरमाराध्य, बद्धानुन्मोच्य बन्धनात् ॥४९७ ॥ लुम्पन् दीनेषु दीनत्वं, शिबिकामधिरूढवान् । तैर्धर्मबन्धभिः सार्धं, समं कमलसेनया ४९८ ॥ खेचरेन्द्र-नरेन्द्राभ्यां, कृतनिष्क्रमणोत्सवः । चारणश्रमणोपान्ते, कुमारो व्रतमग्रहीत् ॥४९९॥ (विशेषकम्)

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109