Book Title: Katharatnasagar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 102
________________ परिशिष्ट - २ दानस्योपरि कृतपुण्यकथा द्रविणं यः परः कोटिर्ददौ सन्त्यज्यते कथम् ? । मितमेव हि सर्वोऽपि दत्तेऽयं त्वमितं ददौ ॥ ३५ ॥ मनस्तथा गुणैर्बद्धं तदनेनाधुना मम 1 मातः ! कुत्रापि नान्यत्र गन्तुमुत्सहते यथा ॥ ३६ ॥ इति निर्बन्धमेतस्या, निश्चित्य हृदि कुट्टिनी । अचीकरन् सदाऽवज्ञां, दासीभिः कृतपुण्यके ॥३७॥ हेतुमात्मन्यवज्ञाय प्राज्ञः स हृदि तर्कयन् । निश्चिकायेति तत्सर्वं कुट्टिनी कारयत्यदः ॥ ३८ ॥ अन्वतप्य च तेनाथ, भृशं हृदि विषादिना । कियदेतज्जनानां हि विषयोन्मादिनां ननु ॥ ३९ ॥ मानी ततो विनिर्गत्य, निजधाम जगाम सः । तत्रैक्षत प्रियां म्लानां दिने कुमुदिनीमिव ॥४०॥ शून्यं पितृभ्यामश्रीकं, तस्य स्वं धाम पश्यतः । जातधैर्यजुषोऽप्याशु - लोचने अश्रुमिश्रिते ॥४१॥ दूरतोऽपि तमायान्तं, सापि वीक्ष्य विचक्षणा । विकल्पकल्पनामेवं चक्रे स्मेरविलोचना ॥४२ ॥ अये ! प्राणप्रियः किं मे, सोऽयमभ्येति सम्मुखः । कुतोऽथवास्ति में मन्दभाग्याया भाग्यमीदृशम् ॥ ४३ ॥ सा पाणिग्रहणे दृष्टं निश्चित्य सुचिरेण तम् । अभ्युत्तस्थौ मनोदृष्टि- रोमाञ्चतनुभिः क्रमात् ॥४४॥ रोमभिः सोऽभिजग्मेऽस्याः, स्विन्ने बाष्पछलादृशौ । अन्यो वहति ही भारं क्रन्दति त्वपरो नरः ॥ ४५ ॥ मधुराभिगिराभिस्तां स तदालापर्यस्तदा । व्यलीयत यथा पूर्वः, सर्वोप्यस्याः पराभवः ॥ ४६ ॥ १८३ १८४ कथारत्नसागरे रतविद्यामधीयाना, ततः सुरतपण्डितात् । गर्भं बभार सा बाला, बालालिरिव कोशलम् ॥४७॥ परेद्युस्तामयं प्राह, प्रिये किं कथयाम्यहम् । भस्मन्याहुतिवद् ग्रन्था - धीतिरियं मुधाभवत् ॥ ४८ ॥ प्रापितौ पितरौ दुःखं, नीतं च निधनं धनम् । मया यत्त्वय्यपकृतं तद्वक्तुमपि न क्षमे ॥ ४९ ॥ फूत्कृतैर्भावयत्येष, साम्प्रतं दौस्थ्यपन्नगः । श्रीर्नागदमनी तन्वि ! नास्ति हस्ते यतो मम ॥५०॥ उपक्रमं वणिज्यायै, सुवाणि करवाणि तत् । मूलद्रव्याय जायेत, यदि किञ्चन काञ्चनम् ॥ ५१ ॥ सा प्राह मुदिता प्राणप्रियालङ्करणानि मे । दीनाराणां सहस्रं च गृहाणाऽनुगृहाण माम् ॥५२॥ पण्यं शतैरथ क्रीत्वा नानादेशान्तरोचितम् । सार्थे प्राची प्रतिष्ठेऽमुं, वस्तुं सन्ध्याक्षणे ययौ ॥ ५३ ॥ निवार्य सोऽनुगच्छन्तीं प्रियां तत्र धनात्मजः । विशश्राम क्वचिद्देव - कुले निद्राविवर्जितः ॥ ५४ ॥ इतश्च काचिदिभ्यस्य, प्रिया तत्पुरवासिनी । अस्ति वर्षीयसी तस्याः सुतः सायान्त्रिकोऽभवत् ॥५५ ॥ अपुत्रः पोतभङ्गेन, विपन्नः स महार्णवे । राजा गृह्णातु मा लक्ष्मीं, सेति वार्तामगोपयत् ॥५६॥ साऽथ सार्थे तमभ्येत्य, ध्यात्वा च हृदि कञ्चन । उत्थाप्य कृतपुण्यं तमानिनाय स्वमालयम् ॥५७॥ सा पश्यन्तीषु निर्लज्जा, वधूषु चतसृष्वपि । आलम्ब्य गलमेतस्य रुदती निजगाद तम् ॥ ५८ ॥

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109